आशुतोष मुखर्जिनो भाषणमद्यापि राष्ट्रभावनया ऊर्जावन्तं निर्माति सर्वम् : जेपी नड्डा
नव दिल्ली, 30 जूनमासः (हि.स.)।केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जगतप्रकाशनड्डा उक्तवान् यत् डा आशुतोषमुखर्जी महोदयस्य भाषणानि अद्यापि अस्माकं मनांसि संवैधानिकमूल्यैः तर्कयुक्तविमर्शेन गम्भीरराष्ट्रभावनया च पुनः ऊर्जितानि कुर्वन्ति। एतानि विचारा
केंद्रीय स्वास्थ्य एवं परिवार कल्याण मंत्री जगत प्रकाश नड्डा मंगलवार को द कलेक्टेड स्पीचेस ऑफ बंगाल टाइगर आशुतोष मुखर्जी का लोकार्पण करते हुए साथ में दिल्ली विधानसभा अध्यक्ष विजेंद्र गुप्ता, मुख्यमंत्री रेखा गुप्ता


नव दिल्ली, 30 जूनमासः (हि.स.)।केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जगतप्रकाशनड्डा उक्तवान् यत् डा आशुतोषमुखर्जी महोदयस्य भाषणानि अद्यापि अस्माकं मनांसि संवैधानिकमूल्यैः तर्कयुक्तविमर्शेन गम्भीरराष्ट्रभावनया च पुनः ऊर्जितानि कुर्वन्ति। एतानि विचाराणि सः मङ्गलवासरे दिल्लीविधानसभापरिसरे आयोजिते समारोहे व्यक्तवान्। तेन डा आशुतोषमुखर्जी महोदयस्य १६२ तमे जन्मदिवसावसरे दिल्लीविधानसभया प्रकाशितस्य ग्रन्थस्य द कलेक्टेड स्पीचेस आफ् बंगाल टाइगर आशुतोषमुखर्जी इत्यस्य लोकार्पणं कृतम्। डा आशुतोषमुखर्जी प्रसिद्धः शिक्षाविद् विधिवेत्ता च आसीत्। सः १९०४ तमे वर्षे इम्पीरियल लेजिस्लेटिव काउन्सिलस्य सदस्यः कलकत्ताउच्चन्यायालयस्य न्यायाधीशः मुख्यन्यायाधीशः तथा कलकत्ताविश्वविद्यालयस्य कुलपतिः आसीत्।

अस्मिन् विशेषसमारोहे केन्द्रीयराज्यमन्त्री हर्षमल्होत्रा मुख्यमन्त्री रेखागुप्ता दिल्लीविधानसभाध्यक्षः विजेन्द्रगुप्ता दिल्लीसर्वकारस्य मन्त्रिणः आशीषसूद मनजिन्दरसिंहसिरसा डा पङ्कजकुमार दिल्लीविधानसभायाः उपाध्यक्षः मोहनसिंहबिष्ट च उपस्थिताः आसन्। कार्यक्रमे द कलेक्टेड स्पीचेस आफ् बंगाल टाइगर आशुतोषमुखर्जिनः आधारेण निर्मितस्य विशेषदृश्यचित्रस्य अपि प्रदर्शनं कृतम्।

जगतप्रकाशनड्डा उक्तवान् यत् डा आशुतोषमुखर्जी महोदयस्य सार्वजनिकजीवनं संवैधानिकचिन्तनेन बौद्धिकानुशासनेन भारतस्य सभ्यतामूल्येषु अटूटनिष्ठया च प्रेरितम् आसीत्। तेन ग्रन्थे सङ्कलितानां द्वात्रिंशत् विधायीभाषणानां उल्लेखं कृत्वा उक्तं यत् डा मुखर्जी भावनाप्रधानघोषणानां स्थाने तर्कयुक्तसंवैधानिकविमर्शस्य माध्यमेन नागरिकस्वातन्त्र्यस्य प्रशासनिकउत्तरदायित्वस्य विश्वविद्यालयानां स्वायत्ततायाः राष्ट्रियआत्मविश्वासस्य च दृढसमर्थनं कृतवान्। तेन उक्तं यत् ज्ञानसिद्धान्ताधारितः डा मुखर्जी महोदयस्य अचलराष्ट्रवादः अद्यापि विधायकानां नीतिनिर्मातॄणां जनप्रतिनिधीनां च प्रेरणास्रोतः अस्ति।

दिल्लीविधानसभाध्यक्षः विजेन्द्रगुप्ता उक्तवान् यत् डा आशुतोषमुखर्जी एतत् सिद्धं कृतवान् यत् राष्ट्रस्य वास्तविकशक्तिः निर्भीकविद्वत्तायाम् उत्कृष्टशिक्षायाम् योग्यताधारितसंस्थासु च निहिता भवति। शिक्षायाः न्यायस्य भारतस्य आत्मसम्मानस्य च प्रति तस्य अटूटसमर्पणस्य कारणात् एव सः बंगालटाइगर इति नाम्ना सम्मानितः। तेन उक्तं यत् डा मुखर्जी औपनिवेशिकशासनकाले अपि शैक्षणिकसंस्थानानां स्वायत्ततां दृढतया संरक्षितवान्। शासकीयविरोधस्य उपस्थितौ अपि सर सीवीरमन प्रोफेसर मेघनादसाहा इत्यादीन् महान् वैज्ञानिकान् प्रोत्साहितवान् तथा नेताजी सुभाषचन्द्रबोस इत्यादीनां विद्यार्थिनां निर्णायकसमये दृढतया समर्थनं कृतवान्। तेन उक्तं यत् डा मुखर्जी महोदयस्य जीवनं साहसस्य सत्यनिष्ठायाः शिक्षया राष्ट्रनिर्माणस्य च अटूटप्रतिबद्धतायाः उत्कृष्टम् उदाहरणम् अस्ति। दिल्लीविधानसभया प्रकाशितः द कलेक्टेड स्पीचेस आफ् बंगाल टाइगर आशुतोषमुखर्जी इति ग्रन्थः तस्य असाधारणयोगदानाय समर्पिता विनम्रश्रद्धाञ्जलिः अस्ति। अयं ग्रन्थः शोधकर्तॄन् विद्यार्थिनः भाविपीढीः च भारतस्य महानतमेषु संस्थाननिर्मातृषु अन्यतमस्य विचारैः प्रत्यक्षं परिचितान् करिष्यति।

मुख्यमन्त्री रेखागुप्ता उक्तवती यत् महानां विभूतीनां जीवनं केवलं इतिहासस्य पृष्ठेषु सीमितं न भवेत् अपितु प्रत्येकां नूतनपीढीं निरन्तरं प्रेरयेत्। सा उक्तवती यत् डा आशुतोषमुखर्जी केवलं महान् न्यायविद् शिक्षाविद् वा नासीत् अपितु दूरदर्शी व्यक्तित्वम् आसीत् यस्य सम्पूर्णजीवनं भारतस्य आत्मना तस्य सांस्कृतिकचेतनया च गाढतया सम्बद्धम् आसीत्। सा उक्तवती यत् राष्ट्रनिर्माणं सततप्रक्रिया अस्ति या प्रत्येकया पीढ्या अग्रे नीयते। महानां संस्थाननिर्मातॄणां योगदानस्य स्मरणं संरक्षणं च देशस्य बौद्धिकसांस्कृतिकाधारस्य सुदृढीकरणाय अनिवार्यम् अस्ति। राष्ट्रियशिक्षानीतेः उल्लेखं कुर्वती सा उक्तवती यत् भारतीयभाषासु मूल्याधारितशिक्षायां च तस्याः विशेषप्राधान्यम् तेषामेव सिद्धान्तानां विस्तारः अस्ति येषां समर्थनं डा आशुतोषमुखर्जी दशकेभ्यः पूर्वमेव कृतवान्।

दिल्लीविधानसभायाः उपाध्यक्षः मोहनसिंहबिष्ट उक्तवान् यत् प्रत्येकस्याः विधायिकायाः दायित्वं केवलं संवैधानिकअभिलेखानां संरक्षणं न भवति अपितु तेषां विचाराणामपि संरक्षणं भवति ये राष्ट्रस्य लोकतान्त्रिकविकासाय दिशां प्रदत्तवन्तः। एतत् प्रकाशनं तस्यामेव दिशि महत्त्वपूर्णं पदम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani