मोदीसर्वकारः द्वादशवर्षेषु सुरक्षाविकासयोःक्षेत्रे ऐतिहासिकं परिवर्तनम् : सीआर पाटिलः
नवदिल्ली, 30 जूनमासः (हि.स.)। केन्द्रीयजलशक्तिमन्त्री सी. आर. पाटिल हूलदिवसावसरे आयोजिते कार्यक्रमे अवदत् यत् नरेन्द्र मोदी इत्यस्य नेतृत्वे गतद्वादशवर्षेषु देशेन सुरक्षा आधारभूतसंरचना जलसंरक्षणे जनकल्याणे च ऐतिहासिकः परिवर्तनं दृष्टम्। मोदीसर्वकार
नई दिल्ली में हूल दिवस के अवसर पर आयोजित ‘‘12 साल मोदी सरकार : विकसित भारत का अमृतकाल’’ कार्यक्रम में केंद्रीय जल शक्ति मंत्री सीआर पाटिल, सांसद बांसुरी स्वराज और माय होम इंडिया के संस्थापक सुनील देवधर सामाजिक एवं संगठनात्मक क्षेत्र में योगदान देने वाले कार्यकर्ताओं को सम्मानित करते हुए।


नई दिल्ली में हूल दिवस के अवसर पर आयोजित ‘‘12 साल मोदी सरकार : विकसित भारत का अमृतकाल’’ कार्यक्रम में केंद्रीय जल शक्ति मंत्री सीआर पाटिल, सांसद बांसुरी स्वराज और माय होम इंडिया के संस्थापक सुनील देवधर सामाजिक एवं संगठनात्मक क्षेत्र में योगदान देने वाले कार्यकर्ताओं को सम्मानित करते हुए।


नवदिल्ली, 30 जूनमासः (हि.स.)। केन्द्रीयजलशक्तिमन्त्री सी. आर. पाटिल हूलदिवसावसरे आयोजिते कार्यक्रमे अवदत् यत् नरेन्द्र मोदी इत्यस्य नेतृत्वे गतद्वादशवर्षेषु देशेन सुरक्षा आधारभूतसंरचना जलसंरक्षणे जनकल्याणे च ऐतिहासिकः परिवर्तनं दृष्टम्। मोदीसर्वकारेण प्रथमं आतङ्कवादस्य नक्सलवादस्य च भयस्य अन्तः कृतः तथा देशवासिषु सुरक्षायाः आत्मविश्वासस्य च वातावरणं निर्मितम्।

हूलदिवसस्य अवसरे माय होम इंडिया इति संस्थया आयोजिते द्वादशवर्षाणि मोदीसर्वकारः विकसितभारतस्य अमृतकालः इति कार्यक्रमे पाटिलः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रीयगृहमन्त्री अमित शाह इत्येतयोः नेतृत्वे आतङ्कवादस्य नक्सलवादस्य च विरुद्धं प्रभावी कार्यवाही कृता। अनेन देशे सुरक्षायाः भावना अधिका सुदृढा अभवत् तथा मुख्यधारायां पुनरागन्तुम् इच्छुकानां जनानां कृते अनुकूलं वातावरणं निर्मितम्।

सः अवदत् यत् वर्षे २०१४ देशे चतुःसप्ततिः विमानस्थानकानि आसन्, तेषां सङ्ख्या अधुना वर्धित्वा एकसप्तत्यधिकशतं जाता। रेलमार्गे सडकमार्गे वायुसम्पर्कक्षेत्रे च व्यापकः विस्तारः अभवत्। वन्देभारत इति आधुनिकयानसेवया यात्रा शीघ्रा सुविधाजनका च अभवत्। देशस्य प्रथमा बुलेटयानपरियोजना अपि तीव्रगत्या प्रगतिम् अधिगच्छति।

जलसंरक्षणस्य महत्त्वम् उल्लिख्य पाटिलः अवदत् यत् भूमेः अधः स्थितस्य जलस्य अतिदोहनं गम्भीरचिन्तायाः विषयः अस्ति। सः जनान् जलसञ्चयं जनान्दोलनरूपेण स्वीकर्तुम् आहूतवान्। मध्यप्रदेशे नदीसंयोजनपरियोजनासु प्रायः चतुश्चत्वारिंशत्सहस्रकोटिरूप्यकाणि व्ययीक्रियन्ते, पार्वती कालीसिन्धु चम्बलपरियोजनया च राजस्थानराज्याय विशालपरिमाणे जलं प्राप्स्यते।

सः अवदत् यत् केन्द्रसर्वकारः दरिद्रजनकल्याणाय प्रतिबद्धः अस्ति तथा कोटिशः जनानां कृते निःशुल्कधान्यवितरणं क्रियते। एषा विश्वस्य महत्तमासु अन्नवितरणयोजनासु अन्यतमा अस्ति।

कार्यक्रमे भाजपासांसदा बांसुरी स्वराज अवदत् यत् जूनमासस्य त्रिंशत्तमः दिवसः भारतीयचेतनायाः स्वाभिमानस्य च प्रतीकः अस्ति, यस्मिन् दिने सन्थालसमुदायेन आङ्ग्लशासनस्य विरुद्धं विद्रोहस्य उद्घोषः कृतः। मोदीसर्वकारस्य द्वादशवर्षेषु भारतेन स्वच्छता अन्तरिक्षविज्ञान स्वास्थ्य राष्ट्रियसुरक्षाक्षेत्रेषु च उल्लेखनीयाः उपलब्धयः प्राप्ताः। तया कैच द रेन अभियानस्य, एकादशकोट्यधिकशौचालयनिर्माणस्य, चन्द्रयानमिशनस्य तथा वैक्सीनमैत्री अभियानस्य अपि उल्लेखः कृतः।

माय होम इंडिया संस्थायाः संस्थापकः सुनील देवधर अवदत् यत् वर्षस्य १८५५ तमस्य सन्थालविद्रोहः भारतीयस्वातन्त्र्यसंग्रामस्य महत्त्वपूर्णः अध्यायः आसीत्, यस्मिन् सहस्रशः सन्थालजनाः स्वप्राणान् न्यवेदयन्। सः अवदत् यत् माय होम इंडिया संस्था गतपञ्चवर्षेभ्यः देशव्यापिनं हूलदिवसस्य आयोजनं कृत्वा एतदितिहासं जनजनपर्यन्तं प्रसारयति।

कार्यक्रमे पूर्वाञ्चलमोर्चाध्यक्षः सन्तोषओझा सहिताः भारतीयजनतापक्षस्य विविधप्रदेशीयजिलास्तरीयकार्यकर्तारः सम्मानिताः।

---------------

Hindusthan Samachar / Dheeraj Maithani