Enter your Email Address to subscribe to our newsletters

फतेहाबादनगरम्, ३० जूनमासः (हि.स.)। राजनैतिक-कार्यक्रमान् विशिष्ट-नियमं च एकतः स्थापयित्वा मङ्गलवासरे फतेहाबादे मानवतायाः अनुपमं उदाहरणम् अदृश्यत। भारतीय-जनता-पक्षस्य नवनियुक्ता प्रदेशाध्यक्षा डॉ.अर्चना-गुप्ता संवेदनशीलतायाः परिचयं दत्त्वा न केवलं स्वीयं दलं स्थगितवती, अपितु मार्ग-दुर्घटनायां पीडितं द्विचक्रवाहन-चालकं स्वयं ध्यात्वा तस्मै प्राथमिक-चिकित्साम् अपि कारितवती।
प्राप्तसूचनानुसारं भाजपा-प्रदेशाध्यक्षा डॉ.अर्चना-गुप्ता स्वीयेन दलेन सह सिरसानगरे आयोजिते कार्यक्रमे सहभागित्वाय गच्छन्ती आसीत्। तया सह फतेहाबादस्य भाजपा-जनपदाध्यक्षः प्रवीण-जोडा अपि उपस्थितः आसीत्। यदा तस्याः दलं फतेहाबाद-परिहारमार्गस्य समीपम् अगच्छत्, तदा अग्रे गच्छन् एकः द्विचक्रवाहन-चालकः अकस्मात् असन्तुलितः भूत्वा मार्गे पतितः। अस्मिन् दुर्घटनायां सः गम्भीररूपेण आहतः अभवत्।
दुर्घटनां दृष्ट्वैव डॉ.अर्चना-गुप्ता तत्क्षणमेव स्वीयं दलं स्थगितवती। सुरक्षा-नियमस्य चिन्तां विहाय सा वाहनात् अवतीर्य जनपदाध्यक्षस्य प्रवीण-जोडस्य अन्येषां कार्यकर्तृणां च साहाय्येन आहतस्य साहाय्यम् अकरोत्। डॉ.अर्चना-गुप्ता तं धैर्यम् अददात् तथा च घटनास्थले एव तस्मै प्राथमिक-चिकित्सां प्रदापितवती।
Hindusthan Samachar / Divya Ranjan