Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, जूनमासस्य ३० दिनाङ्कः (हि.स.)। प्रदेश-भाजपा सोलन-नगरनिगमे महापौर-उपमहापौरयोः निर्वाचनविषये कांग्रेस-सर्वकारस्य उपरि सत्तायाः दुरुपयोगस्य आरोपम् अकरोत्। भाजपायाः प्रदेश-मुख्यप्रवक्ता विधायकः राकेश-जमवालः मङ्गलवासरे उक्तवान् यत् नगरनिगमे भाजपायाः बहुमतम् अस्ति तथापि कांग्रेस-सर्वकारः जनादेशं प्रभावितुं प्रयतते।
राकेश-जमवालः अवदत् यत् सोलन-नगरनिगमे जनतया भाजपायै स्पष्टः जनादेशः प्रदत्तः, किन्तु राज्य-सर्वकारः प्रशासनिक-विधिक-प्रक्रियासु हस्तक्षेपं कृत्वा राजनैतिकलाभं प्राप्तुं चेष्टते। तेन आरोपः कृतः यत् सर्वकारेण जूनमासस्य २३ दिनाङ्के नियमेषु संशोधनं कृत्वा सम्पूर्णा प्रक्रिया प्रभावितुं प्रयासः कृतः।
जमवालः अवदत् यत् पूर्वम् एतादृशेषु प्रकरणेषु श्रवणस्य निर्णयस्य च निश्चितः प्रक्रियाक्रमः आसीत्, यस्मिन् प्रशासनस्य विभिन्नस्तराणां भूमिका आसीत्। तस्य मते अधुना नियमपरिवर्तनेन केचन अधिकाराः एकस्मिन् एव स्तरे केन्द्रीकृताः सन्ति, येन निष्पक्ष-प्रक्रियायाः प्रभावितेः आशङ्का जाता। तेन उक्तं यत् एतत् संशोधनं लोकतान्त्रिक-प्रक्रियाम् प्रभावितुं राजनैतिकलाभं प्राप्तुं च कृतमिव प्रतीयते।भाजपा-नेता अपि आरोपम् अकरोत् यत् कांग्रेस-सर्वकारः भाजपा-समर्थितान् निर्वाचित-जनप्रतिनिधीन् अयोग्यान् घोषयितुं प्रयतते, येन नगरनिगमे बहुमतस्य गणना परिवर्तयितुं शक्येत। तेन उक्तं यत् यदि एवं भवति तर्हि तत् जनतायाः जनादेशस्य लोकतान्त्रिक-मूल्यानां च विरुद्धं भविष्यति।
राकेश-जमवालः अवदत् यत् सर्वकारः प्रशासनम् उपरि प्रभावं निर्माय, नियमेषु परिवर्तनं कृत्वा, शासकीय-यन्त्राणां उपयोगं च कृत्वा सोलन-नगरनिगमस्य सत्ताम् अधिकारयितुम् इच्छति। तेन एतत् लोकतान्त्रिक-व्यवस्थायाः संवैधानिक-संस्थानां निष्पक्षतायाश्च कृते चिन्ता-जनकम् इति कथितम्।
तेन प्रशासनिक-अधिकारिभ्यः आह्वानं कृतं यत् ते राजनैतिक-प्रभावात् दूरं स्थित्वा संविधानस्य विधेः च अनुसारेण कार्यं कुर्वन्तु। जामवालः अवदत् यत् अधिकारिणां उत्तरदायित्वं लोकतान्त्रिक-संस्थानां विधिं प्रति भवति, अतः तैः निष्पक्षता सर्वदा परिपालनीया।
भाजपा-नेता अवदत् यत् तस्य दलम् अस्मिन् विषये लोकतान्त्रिक-विधिक-मार्गेण स्वसंघर्षं निरन्तरं करिष्यति। यदि सर्वकारः जनादेशं प्रभावितुं प्रयतते तर्हि भाजपा न्यायालये जनतायाश्च मध्ये एतत् प्रकरणम् उत्थापयिष्यति। तेन एतदपि उक्तं यत् प्रदेशस्य जनता लोकतान्त्रिक-प्रक्रियाः सूक्ष्मतया निरीक्षमाणा अस्ति तथा समये आगते स्वनिर्णयं प्रदास्यति।
Hindusthan Samachar / Divya Ranjan