Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, जूनमासस्य ३० दिनाङ्कः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव-सायः अद्य मङ्गलवासरे सरगुजा-रायगढ-जनपदयोः प्रवासे भविष्यति। सः प्रातः ११:०० वादने मुख्यमन्त्री-निवासे क्रीडा-युवा-कल्याण-विभागस्य समीक्षासभायाः अध्यक्षतां करिष्यति। ततः प्रातः ११:४० वादने सरगुजा-जनपदस्य उदयपुरं प्रति प्रस्थास्यति।
मध्याह्ने १२:५० वादने मुख्यमन्त्री झिरमिति-स्टेडियम-हेलिपदं प्राप्स्यति। ततः मध्याह्ने १:०० वादने रामगढ-महोत्सवस्य समापन-समारोहे सहभागं करिष्यति। भगवतः श्रीरामस्य वनवासकालेन सम्बद्धायाः धार्मिक-श्रद्धायाः समृद्ध-सांस्कृतिक-परम्परायाश्च प्रतीकरूपे अस्मिन् महोत्सवे मुख्यमन्त्री सांस्कृतिक-प्रस्तुतीनां अवलोकनं करिष्यति, श्रद्धालुभिः स्थानीय-जनप्रतिनिधिभिश्च सह संवादमपि करिष्यति।
समारोहस्य अनन्तरं मुख्यमन्त्री मध्याह्ने २:३० वादने रायगढ-जनपदं प्रति प्रस्थास्यति। निर्धारित-कार्यक्रमानुसारं सः सायं ५:०० वादने रायगढात् रायपुरं प्रत्यागमिष्यति।
Hindusthan Samachar / Divya Ranjan