योगीसर्वकारेण पेराई सत्रे 2025-26 ईक्षुकृषकेभ्यः 31,682 कोटिरुप्यकाणि प्रदत्तानि
उत्तरप्रदेशः अभवत् देशस्य सर्वाधिक-इक्षुमूल्य-भुगतानं कुर्वन् राज्यः इक्षुकृषकाणां समृद्धेः नूतनः अध्यायः, भुक्तिद्वारा उत्पादनपर्यन्तं उत्तरप्रदेशः अग्रणी लखनऊ, ३० जूनमासः (हि.स.)। मुख्यमंत्रिणो योगिनःआदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारेण इ
मुख्यमंत्री योगी आदित्यनाथ


उत्तरप्रदेशः अभवत् देशस्य सर्वाधिक-इक्षुमूल्य-भुगतानं कुर्वन् राज्यः

इक्षुकृषकाणां समृद्धेः नूतनः अध्यायः, भुक्तिद्वारा उत्पादनपर्यन्तं उत्तरप्रदेशः अग्रणी

लखनऊ, ३० जूनमासः (हि.स.)। मुख्यमंत्रिणो योगिनःआदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारेण इक्षुकृषकाणां हितसंरक्षणे तथा तेषाम् आर्थिकसमृद्ध्यर्थं नूतनः कीर्तिमानः स्थापितः। राज्यसर्वकारेण पेषणसत्रे २०२५–२६ इक्षुकृषकेभ्यः ३१,६८२ कोटिरूप्यकाणां मूल्यभुगतानं कृतम्। एवं च वर्षात् २०१७ आरभ्य अद्यावधि इक्षुकृषकेभ्यः अभिलेखीयं ३,२३,५७२ कोटिरूप्यकाणां इक्षुमूल्यभुगतानं कृतम्। देशे सर्वाधिकं इक्षुमूल्यभुगतानं कुर्वन् उत्तरप्रदेशः निरन्तरं प्रथमस्थाने प्रतिष्ठितः अस्ति।

राज्यसर्वकारस्य प्रवक्ता मङ्गलवासरे अवदत् यत् इक्षुविकास-शर्करौद्योगविभागस्य अनुसारेण वर्षात् १९९५ तः २०१७ पर्यन्तं द्वाविंशतिवर्षेषु कृषकेभ्यः कुलम् २,१३,५१९ कोटिरूप्यकाणां भुगतानं कृतम् आसीत्। परन्तु वर्तमानसर्वकारेण केवलं नववर्षेषु एव तस्मात् १,१०,०५३ कोटिरूप्यकाणि अधिकानि प्रदाय नूतनः अभिलेखः स्थापितः। एवं च वर्षात् २००७ तः २०१७ पर्यन्तं दशवर्षेषु आहत्य १,४७,३४६ कोटिरूप्यकाणां भुक्तिः अभवत्, किन्तु वर्षात् २०१७ आरभ्य अद्यावधि ३,२३,५७२ कोटिरूप्यकाणां भुक्तिः सम्पन्।

शर्कराकारखानाभिः ८९.५२ लक्षटन-शर्करायाः उत्पादनम्

प्रदेशे योगीसर्वकारस्य कृषकहितैषिणीनां नीतिनां प्रभावः वर्तमाने पेषणसत्रे २०२५–२६ अपि स्पष्टतया दृश्यते। अस्मिन् सत्रे अद्यावधि कृषकेभ्यः ३१,६८२ कोटिरूप्यकाणां भुगतानं कृतम्, यत् कुलदेयराशेः ९१.६४ प्रतिशतं भवति। इक्षोः उत्पादनक्षेत्रे शर्करौद्योगे च उत्तरप्रदेशः महतीं सिद्धिम् अधिगतवान्। पेषणसत्रे २०२५–२६ प्रदेशस्य १२१ सञ्चालितशर्कराकारखानाभिः ८७८.१२ लक्षटन-इक्षोः पेषणं कृत्वा ८९.५२ लक्षटन-शर्करायाः उत्पादनं कृतम्।

दशलक्षजनानां जीविका प्राप्ता

मार्चमासात् २०१७ आरभ्य अद्यावधि प्रदेशे चतस्रः नवीनाः शर्कराकारखानाः स्थापिताः, तथा सप्त पूर्वं निरुद्धाः शर्कराकारखानाः पुनः सञ्चालिताः। एतदतिरिक्तं द्विचत्वारिंशत् निजीक्षेत्रीयेषु, एका निगमक्षेत्रीया तथा एका सहकारिक्षेत्रीया शर्करानिर्माणशाला क्षमताविस्तारः कृतः। एतैः प्रयासैः १,२८,५०० टीसीडी अतिरिक्तपेषणक्षमतायाः सृजनं जातम्। नवीनोद्योगानां स्थापनया क्षमताविस्तारेण च प्रायः दशलक्षजनानां प्रत्यक्षतया परोक्षतया च रोजगारः प्राप्तः।

इक्षुक्षेत्रफले अपि उल्लेखनीया वृद्धिः

उत्तरप्रदेशे वर्षे २०१६–१७ इक्षुक्षेत्रफलम् २०.५४ लक्षहेक्टेयर् आसीत्, यत् नववर्षेषु ३९.२९ प्रतिशतं वर्धित्वा २८.६१ लक्षहेक्टेयर् अभवत्। अस्यैव अवधेः इक्षोः औसत-उत्पादकता ७२.३८ टन प्रति हेक्टेयर् इत्यस्मात् वर्धित्वा ८३.२५ टन प्रति हेक्टेयर् अभवत्। उन्नत-इक्षुप्रजातीनां, वैज्ञानिककृषेः, आधुनिककृषितन्त्रज्ञानस्य च प्रयोगेण प्रति हेक्टेयर् १०.८७ टन-वृद्धिः अभिलिखिता।

इक्षुकृषकाणां सङ्ख्यायामपि महती वृद्धिः

इक्षुकृषकाणां सङ्ख्या अपि निरन्तरं वर्धिता। वर्षे २०१६–१७ प्रदेशे प्रायः ३३ लक्षम् इक्षुकृषकाः आसन्, येषां सङ्ख्या सम्प्रति वर्धित्वा ४८ लक्षम् अभवत्। अर्थात् नववर्षेषु १५ लक्ष-इक्षुकृषकाणां वृद्धिः अभवत्। वर्धमानं क्षेत्रफलम्, उन्नता उत्पादकता, अभिलेखीयं मूल्यभुगतानम् तथा कृषकसङ्ख्यायाः वृद्धिः एतत् सूचयति यत् प्रदेशसर्वकारस्य कृषकहितैषिणीनां नीतिनां प्रभावेण इक्षुकृषकाणाम् आयः वर्धिता। एताभिः उपलब्धिभिः उत्तरप्रदेशः अद्य देशे इक्षोः उत्पादनक्षेत्रे तथा इक्षुमूल्यभुगतानक्षेत्रे अग्रणी राज्यरूपेण प्रतिष्ठितः अस्ति।

---

Hindusthan Samachar / Dheeraj Maithani