अयोध्यायाम् अजय राये अवरोधिते कांग्रेसदलेन राम मंदिरप्रकरणे दोषिणो रक्षितुम् आरोपितम्
नव दिल्ली, 30 जूनमासः (हि.स.)।काङ्ग्रेसस्य महासचिवः सञ्चारविभागस्य जयराम रमेश अयोध्यायां काङ्ग्रेसस्य प्रदेशाध्यक्षस्य अजय राय निरोधनानन्तरं दोषिणां संरक्षणस्य आरोपं कृतवान्। सः अवदत् यत् श्रीराममन्दिरे कथितस्य चढावस्य चौर्यस्य भूमेः अनियमिततायाश्च
जयराम रमेश


नव दिल्ली, 30 जूनमासः (हि.स.)।काङ्ग्रेसस्य महासचिवः सञ्चारविभागस्य जयराम रमेश अयोध्यायां काङ्ग्रेसस्य प्रदेशाध्यक्षस्य अजय राय निरोधनानन्तरं दोषिणां संरक्षणस्य आरोपं कृतवान्। सः अवदत् यत् श्रीराममन्दिरे कथितस्य चढावस्य चौर्यस्य भूमेः अनियमिततायाश्च विषये कार्यवाहीम् अपेक्षमाणानां काङ्ग्रेसनेतृणाम् अयोध्यायां दर्शनात् तथ्यानां सङ्ग्रहात् च निवारणस्य प्रयासः कृतः। सः उक्तवान् यत् राममन्दिरसम्बद्धे अस्मिन् विषये देशः उत्तरम् इच्छति किन्तु दोषिषु कार्यवाहीं कर्तुं स्थाने विपक्षनेतृणां निरोधनमेव क्रियते।

जयराम रमेशः मङ्गलवासरे सामाजिकमाध्यममञ्चे एक्स इति माध्यमे अवदत् यत् श्रीराममन्दिरे जातेन कथितेन चन्दाचौर्येण सम्पूर्णः देशः व्यथितः अस्ति। तेन दावा कृतः यत् देशवासिनां दबावात् विशेषअन्वेषणदलस्य प्रतिवेदनस्य आगमनानन्तरं प्राथमिकी अभिलेखिता अभवत् किन्तु दीर्घकालस्य व्यतीते अपि मुख्यारोपिताः स्वच्छन्दतया विचरन्ति। तेषां विरुद्धं कठोरकार्यवाही न क्रियते।

तेन उक्तं यत् भगवान् श्रीरामस्य मन्दिरे दर्शनार्थं गच्छन्तः काङ्ग्रेसनेतारः निरङ्कुशरीत्या गृहनिरुद्धाः कृताः एतत् अत्यन्तं निन्दनीयम्। देशवासिनः अस्मिन् विषये दोषिणां विरुद्धं त्वरितकार्यवाहीम् इच्छन्ति। राममन्दिरसम्बद्धे अस्मिन् विषये दोषिणां संरक्षकाः अपि समानरूपेण उत्तरदायिनः सन्ति। जनतायाः दृष्टिः अस्मिन् सम्पूर्णप्रकरणे अस्ति तथा च सा दोषिणां विरुद्धं कार्यवाहीम् अपेक्षते।

काङ्ग्रेसस्य उत्तरप्रदेशाध्यक्षः अजय रायः अपि एक्स इति सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तवान् यत् उत्तरप्रदेशकाङ्ग्रेसस्य प्रतिनिधिमण्डलं त्रिंशत् जून दिनाङ्के अयोध्यायां प्रभोः श्रीरामस्य दर्शनपूजनार्थं गन्तुं निश्चितम् आसीत्। तेन आरोपः कृतः यत् अयोध्यां प्राप्तमात्रे एव पुलिसबलैः तस्य निरोधनं कृत्वा वाहनमध्ये उपवेशितः। यदि सर्वं पारदर्शकं अस्ति तर्हि रामभक्तानाम् अयोध्यागमनात् शासनं किमर्थं बिभेति।

अजय रायस्य नेतृत्वे सांसदः तनुज पुनिया किशोरीलालशर्मा राकेशराठौरः उज्ज्वलरमणसिंहः विधायकः वीरेन्द्रचौधरी इत्यादयः सहितं नवसदस्यात्मकस्य काङ्ग्रेसप्रतिनिधिमण्डलस्य अयोध्यागमनस्य कार्यक्रमः आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani