इंडी गठबंधनं निर्वाचनयोगस्य एसआईआरसंदर्भे अन्यैः प्रकरणैस्संबद्धं न्यायाधीशाय प्रेषितं पत्रम्
नवदिल्ली, 30 जूनमासः (हि.स.)।विपक्षस्य इण्डी गठबन्धनस्य त्रयोविंशतिः घटकदलानि तथा एकः निर्दलीयः सदस्यः निर्वाचनायोगस्य विशेषगहनपुनरीक्षण प्रक्रिया तथा निर्वाचनसम्बद्धानां अन्येषां विषयाणां विषये देशस्य प्रधानन्यायाधीशाय न्यायमूर्तये सूर्यकान्ताय सं
जयराम रमेश


नवदिल्ली, 30 जूनमासः (हि.स.)।विपक्षस्य इण्डी गठबन्धनस्य त्रयोविंशतिः घटकदलानि तथा एकः निर्दलीयः सदस्यः निर्वाचनायोगस्य विशेषगहनपुनरीक्षण प्रक्रिया तथा निर्वाचनसम्बद्धानां अन्येषां विषयाणां विषये देशस्य प्रधानन्यायाधीशाय न्यायमूर्तये सूर्यकान्ताय संयुक्तपत्रं प्रेषितवन्तः।

महासचिवः जयराम रमेशः मङ्गलवासरे एक्स माध्यमे उक्तवान् यत् अष्टम्यां जूनमासस्य आयोजितायां इण्डिया जनबन्धनस्य सभायां एकविंशतिः राजनैतिकदलानि तथा एकः निर्दलीयः सदस्यः सहभागित्वं कृतवन्तः। सभायां निर्णयः कृतः यत् निर्वाचनायोगस्य विशेषगहनपुनरीक्षण प्रक्रिया तथा निर्वाचनपारदर्शितया सम्बद्धानां विषयाणां विषये भारतस्य प्रधानन्यायाधीशाय संयुक्तपत्रं प्रेषयितव्यम्। अधुना तत् पत्रं त्रयोविंशतिदलानां तथा एकस्य निर्दलीयस्य सदस्यस्य हस्ताक्षरैः सह प्रधानन्यायाधीशाय प्रेषितम्।

रमेशः उक्तवान् यत् विपक्षीयदलानि एकात्मतायाम् ऐक्ये प्रतिरोधे च दृढतया स्थितानि सन्ति। एतत् पत्रं लोकतान्त्रिकप्रक्रियायाः सुदृढीकरणाय निर्वाचनपारदर्शितायाः सुनिश्चितीकरणाय च विपक्षीयदलानां संयुक्तप्रयत्नः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani