इतिहासपुटेषु ०१ जुलाईमासः - जीएसटी-प्रणाल्याः प्रवर्तनात् भारतीय-करव्यवस्थायाम् ऐतिहासिकं परिवर्तनम्
भारतीय-अर्थव्यवस्थायाः इतिहासे ०१ जुलाई इति दिवसः महत्त्वपूर्णः मीलस्तम्भरूपेण अभिलिखितः अस्ति। वर्षे २०१७ अस्मिन्नेव दिने केन्द्रसर्वकारेण सम्पूर्णे देशे वस्तु-सेवा-कर-प्रणाली प्रवर्तिता। एषा स्वतन्त्रभारतस्य इतिहासे महत्तमेषु करसुधारेषु अन्यतमा प
सांकेतिक।


भारतीय-अर्थव्यवस्थायाः इतिहासे ०१ जुलाई इति दिवसः महत्त्वपूर्णः मीलस्तम्भरूपेण अभिलिखितः अस्ति। वर्षे २०१७ अस्मिन्नेव दिने केन्द्रसर्वकारेण सम्पूर्णे देशे वस्तु-सेवा-कर-प्रणाली प्रवर्तिता। एषा स्वतन्त्रभारतस्य इतिहासे महत्तमेषु करसुधारेषु अन्यतमा परिगण्यते।जीएसटी-प्रवर्तनात् पूर्वं देशे केन्द्रसर्वकारेण राज्यसर्वकारैश्च उत्पादशुल्कम्, सेवाकरः, मूल्यवर्धितकरः, प्रवेशकरः तथा अन्ये स्थानीयकराः इत्यादयः बहवः परोक्षकराः आरोपिताः आसन्। नवीनव्यवस्थायां तु एतेषां विविधकराणाम् एकीकरणं कृत्वा “एकः देशः, एकः करः” इत्यस्य अवधारणायाः कार्यान्वयनं कृतम्।जीएसटी-प्रणाल्याः उद्देश्यं देशे समाना करव्यवस्था स्थापयितुम्, व्यापारं सरलीकर्तुं तथा कराणां द्विगुणप्रभावं निराकर्तुं च आसीत्। अस्याः प्रवर्तनानन्तरं विभिन्नराज्यानां मध्ये व्यापारः तथा वस्तूनाम् आवागमनम् अपि सुलभतरम् अभवत्।०१ जुलाई २०१७ इत्यस्य मध्यरात्रौ संसद्भवनस्य केन्द्रीयकक्षे आयोजिते विशेषसमारोहे तत्कालीनराष्ट्रपतेः प्रधानमन्त्रिणश्च उपस्थितौ जीएसटी-व्यवस्थायाः औपचारिकः शुभारम्भः अभवत्। अयं अवसरः भारतीय-आर्थिक-सुधाराणाम् इतिहासे महत्त्वपूर्णक्षणत्वेन परिगण्यते।

प्रमुखाः घटनाः

• १७८१ — हैदरअली तथा ब्रिटिशसेनायाः मध्ये युद्धम् अभवत्।• १८५२ — ०१ जुलाई दिनाङ्के सिन्धप्रदेशस्य मुख्यायुक्तेन सर् बर्टले फ्रेरे इत्यनेन केवलं सिन्धराज्ये तथा मुम्बई-कराची-मार्गे प्रयोगार्थं ‘सिन्ध-डाक’ नामकी डाकचिटिका प्रकाशिता।• १८६२ — कलकत्ता-उच्चन्यायालयस्य उद्घाटनम् अभवत्।• १८७९ — भारते पोस्टकार्ड-सेवायाः प्रारम्भः अभवत्।• १९४९ — स्वतन्त्रभारते लघुराज्यानाम् एकीकरणानन्तरं त्रावणकोर-कोचीन-धरोहरम् एकीकृत्य त्रावणकोर-कोचीन-राज्यम् निर्मितम्, किन्तु मालाबारप्रदेशः मद्रासप्रान्तस्य अधीने एव अवर्तत।• १९५५ — इम्पीरियल-बैङ्क-ऑफ-इण्डिया इत्यस्य राष्ट्रियीकरणं कृत्वा तस्मै भारतीय-स्टेट्-बैङ्क् इति नाम प्रदत्तम्।• १९६० — घाना गणराज्यत्वेन उद्घोषितः।• १९६४ — भारतीय-औद्योगिक-विकास-धनागारस्य स्थापना अभवत्।• १९६५ — ०१ जुलाई दिनाङ्के भारत-पाकिस्तानयोः युद्धविरामः प्रवर्तितः। ततः विवादः अन्ताराष्ट्रिय-न्यायाधिकरणस्य पुरतः मध्यस्थतार्थं प्रस्तुतः। तस्य न्यायाधिकरणस्य १९६८ तमे वर्षे प्रकाशितेन निर्णये विवादितभूमेः दशभागेषु नवभागाः भारताय, अवशिष्टः एकभागः पाकिस्तानाय प्रदत्तः।• १९६८ — अमेरिका, ब्रिटेन, रूस तथा अन्यैः ५९ राष्ट्रैः परमाण्वस्त्र-प्रसार-निरोध-सन्धौ हस्ताक्षराणि कृतानि।• १९७५ — तत्कालीनप्रधानमन्त्रिणा इन्दिरा-गान्धिना विंशतिसूत्रीयकार्यक्रमः उद्घोषितः।• १९९० — पूर्व-पश्चिम-जर्मनी-इत्यनयोः सीमारेखा समाप्ता, पश्चिम-जर्मनी-मुद्रा पूर्व-जर्मन्यां मान्यता प्राप्तवती।• १९९१ — वारसा-सन्धिः समाप्ता।• १९९४ — रोमान् हर्जोगः जर्मनीदेशस्य नूतनराष्ट्रपतित्वेन शपथं गृहीतवान्।• १९९४ — विश्वकप-फुट्बाल-प्रतियोगितायाम् आत्मघाती-गोलकर्त्ता कोलम्बियादेशीयः क्रीडकः आन्द्रेस् एस्कोबारः स्वदेशे हतः।• १९९५ — संयुक्तराज्य-अमेरिकया ताइवान्-विरुद्धाः प्रतिबन्धाः अपसारिताः।• १९९६ — ऑस्ट्रेलियादेशस्य उत्तरीयप्रदेशे स्वेच्छामृत्यु-विधिः विश्वे प्रथमवारं प्रवर्तितः।• १९९७ — ब्रिटेनेन हाङ्गकाङ्गः चीनदेशाय समर्पितः।• २००० — लॉर्ड्स-क्रीडाङ्गणे शततम-ऐतिहासिक-परीक्षा-क्रीडायाम् इङ्ग्लैण्डेन वेस्ट्-इण्डीज्-देशः पराजितः।• २००३ — समुद्रे अत्यधिकगहनतां प्राप्तवती विश्वकीर्तिधारिणी जापानदेशस्य पनडुब्बी प्रशान्तमहासागरे लुप्ता अभवत्।• २००४ — आसियान्-सङ्घेन अन्ताराष्ट्रिय-आतङ्कवाद-निरोधार्थम् ऑस्ट्रेलियया सह सन्धिः कृता।• २००४ — कैसिनी-हाइगेन्सः अन्तरिक्षयानं शनिग्रहस्य कक्षां प्राप्तम्।• २००६ — अमेरिकीय-संसदः भारत-अमेरिका-परमाणु-सन्धिम् अनुमोदितवती।• २००६ — एशियाई-युवा-चतुरङ्ग-प्रतियोगितायां भारतेन अष्ट सुवर्णपदकानि जितानि।• २००६ — चीनदेशे बर्ड्-फ्लू-विषाणोः पुष्टिः अभवत्।• २००६ — इराके अल्-कायदा-सङ्गठनस्य वाञ्छितनेता अबू अय्यूब-अल-मस्री इत्यस्य ग्रहणार्थम् अमेरिकया पञ्चलक्ष-डॉलर-पुरस्कारः घोषितः।• २००६ — जापानदेशस्य पूर्वप्रधानमन्त्री रियूतारो हाशीमातो दिवङ्गतः।• २००६ — परिमार्जन-नेगी अल्पवयस्केषु द्वितीयः ग्राण्डमास्टर इति अभवत्।• २००७ — दलाईलामा-विषये चीन-अधिकारिभिः तिब्बत-प्रतिनिधिभिः सह वार्ता प्रारब्धा।• २००८ — गाजापट्टिकायाः फलस्तीनी-विद्रोहिभिः दक्षिण-इस्रायेलदेशे रॉकेट-आक्रमणं कृतम्।• २०१७ — भारते आर्थिकसुधारस्य महत्त्वपूर्णपदक्षेपरूपेण वस्तु-सेवा-कर-प्रणाली प्रवर्तिता।

जन्म

• १८८२ — बिधानचन्द्ररायः — भारतरत्नसम्मानितः वरिष्ठवैद्यः, निर्भीकः स्वतन्त्रतासेनानी, कुशलः राजनीतिज्ञश्च।• १८८९ — बेनेगल-राम-रावः — भारतीय-रिजर्व-बैङ्क-इत्यस्य चतुर्थः राज्यपालः।• १९१३ — वसन्तराव-नायकः — भारतीय-राष्ट्रीय-काङ्ग्रेसस्य राजनीतिज्ञः।• १९१५ — गुयेन-वन-लिन्हः — वियतनाम-कम्युनिष्ट-पक्षस्य महासचिवः।• १९१७ — श्यामशरण-नेगी — हिमाचलप्रदेशस्य शिक्षकः, देशस्य प्रथममतदातारूपेण प्रसिद्धः।• १९२१ — ए.आर.किदवई — बिहार-पश्चिमबङ्ग-राजस्थान-हरियाणाराज्यानां भूतपूर्वराज्यपालः।• १९२५ — अमरकान्तः — हिन्दी-कथासाहित्यस्य प्रसिद्धः साहित्यकारः।• १९२७ — चन्द्रशेखरसिंहः — भारतस्य अष्टमः प्रधानमन्त्री।• १९२७ — सुधाकरपाण्डेयः — हिन्दीसाहित्यस्य उत्कृष्टः लेखकः सुधारकश्च।• १९२८ — रामनरेशयादवः — उत्तरप्रदेशस्य भूतपूर्वमुख्यमन्त्री तथा मध्यप्रदेशस्य राज्यपालः।• १९३३ — अब्दुल्-हमीदः — परमवीरचक्र-विजेता भारतीयसैनिकः।• १९३३ — कन्हैयालाल-नन्दनः — वरिष्ठः पत्रकारः साहित्यकारश्च।• १९३५ — जयपालसिंह-कश्यपः — सप्तमलोकसभायाः सदस्यः।• १९३६ — कृष्णबिहारी-मिश्रः — हिन्दीभाषायाः प्रसिद्धः लेखकः साहित्यकारश्च।• १९३७ — सत्यदेवनारायण-आर्यः — भारतीयजनतापक्षस्य राजनीतिज्ञः।• १९३८ — हरिप्रसाद-चौरसिया — प्रख्यातः वेणुवादकः सङ्गीतकारश्च।• १९३९ — कोलकलूरि-इनोकः — भारतीयः लेखकः, शिक्षकः, श्रीवेङ्कटेश्वरविश्वविद्यालयस्य पूर्वकुलपतिः।• १९३९ — कप्तानसिंह-सोलङ्की — भारतीयजनतापक्षस्य राजनीतिज्ञः।• १९४० — रामगोपाल-बजाजः — हिन्दीचलच्चित्रेषु अभिनेता, रङ्गमञ्चनिर्देशकश्च।• १९४१ — कलराज-मिश्रः — भारतीयजनतापक्षस्य राजनीतिज्ञः।• १९४२ — गुरबचन-जगत् — मणिपुरस्य भूतपूर्वराज्यपालः।• १९४२ — रामउग्रह-पाण्डेयः — महावीरचक्रसम्मानितः वीरसैनिकः।• १९४३ — गुफरान्-आजम् — सप्तमलोकसभायाः सदस्यः।• १९४४ — लीलाधर-जगूडी — हिन्दीसाहित्यस्य प्रतिनिधिकविः, लेखकः, सम्पादकश्च।• १९४९ — वेंकैया-नायडू — प्रख्यातः राजनीतिज्ञः, भारतीयजनतापक्षस्य भूतपूर्वराष्ट्रीयाध्यक्षः।• १९४९ — डा.तुलसीरामः — दलितसाहित्यस्य विशिष्टः साहित्यकारः।• १९५२ — गोपाल-भार्गवः — मध्यप्रदेशसर्वकारस्य पञ्चायत-ग्रामीण-विकासमन्त्री।• १९५८ — त्रिलोकनाथ-पाण्डेयः — आधुनिकः लेखकः, साहित्यकारः, उपन्यासकारश्च।• १९५९ — मनोज-सिन्हा — जम्मू-कश्मीरस्य द्वितीयः उपराज्यपालः।• १९६३ — जी. सतीश-रेड्डी — भारतस्य प्रतिष्ठितः वैमानिक-अन्तरिक्षवैज्ञानिकः।• १९६६ — उस्ताद् राशिद्-खानः — प्रख्यातः भारतीयशास्त्रीयगायकः सङ्गीतकारश्च।• १९७३ — अखिलेश-यादवः — समाजवादीपक्षस्य प्रमुखः राजनीतिज्ञः।

निधनम्

• १९३६ — वनलता-दासगुप्ता — बङ्गप्रदेशस्य महिला-क्रान्तिकारिषु अन्यतमा।• १९४१ — सी. वाई. चिन्तामणिः — स्वतन्त्रतापूर्वभारतस्य प्रतिष्ठितः सम्पादकः उदारवादीदलस्य संस्थापकश्च।• १९६२ — पुरुषोत्तमदास-टण्डनः — आधुनिकभारतस्य प्रमुखः स्वतन्त्रतासेनानी।• १९८९ — सुमन्त-मूलगांवकरः — पद्मभूषणसम्मानितः टाटा-मोटर्स-संस्थायाः प्रबन्धनिदेशकः।• १९९९ — आबिद्-खानः — भारतीयसेनायाः वीरसैनिकः, येन मातृभूमेः रक्षणाय स्वप्राणाः समर्पिताः।

महत्त्वपूर्णाः अवसराः

• राष्ट्रीय-चिकित्सक-दिवसः (भारतरत्न-डा. बिधानचन्द्ररायस्य जन्मदिवसः)।• भारतीय-स्टेट्-बैङ्क-स्थापनादिवसः।• जीएसटी-दिवसः।

Hindusthan Samachar / Divya Ranjan