Enter your Email Address to subscribe to our newsletters

नवदेहली, ३० जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य देहली-प्रदेश-कार्यालये मङ्गलवासरे डॉ.साहिबसिंह-वर्मा-महोदयस्य स्मृत्यर्थम् एकस्य कार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे भारतीय-जनता-पक्षस्य देहली-प्रदेशाध्यक्षः हर्ष-मल्होत्रा, साहिबसिंह-वर्मा-महोदयस्य पुत्रः तथा देहली-सर्वकारस्य मन्त्री प्रवेश-साहिबसिंहः, महामन्त्री विष्णु-मित्तलः, माध्यम-प्रमुखः प्रवीण-शङ्कर-कपूरः, उपाध्यक्षः दिनेश-प्रतापसिंहः, युवा-मोर्चाध्यक्षः सागर-त्यागी, पूर्वाञ्चल-मोर्चाध्यक्षः सन्तोष-ओझा, अल्पसंख्यक-मोर्चाध्यक्षः अनीस-अब्बासी, प्रवक्ता यासिर-जिलानी तथा पक्षस्य कार्यकर्तारः श्रद्धाञ्जलिम् अर्पितवन्तः।
अस्मिन् अवसरे देहली-प्रदेशाध्यक्षः हर्ष-मल्होत्रा अवदत् यत् डॉ.साहिबसिंह-वर्मा-महोदयः स्वस्य सम्पूर्णं जीवनं समाजस्य अन्तिम-जनस्य विकासाय जनकल्याण-योजनानां लाभं प्रापयितुं समर्पितवान्। सः तादृशः जननेता आसीत्, यः ग्रामाणां, दरिद्राणां, कृषकाणां सामान्य-नागरिकाणां च हितानि सर्वदा प्राधान्येन अचिन्तयत्।
सः पुनरवदत् यत् डॉ.साहिबसिंह-वर्मा-महोदयः देहल्याः मुख्यमन्त्रिरूपेण शिक्षा-परिवहन-स्वास्थ्य-आधारभूत-सुविधानां क्षेत्रेषु महत्त्वपूर्णानि कार्याणि अकरोत्। देहल्याः ग्रामीण-क्षेत्राणां कृषकाणां च समस्याः सः सर्वदा दृढतया उत्थापितवान् तथा तेषां विकासाय निरन्तरं प्रयत्नान् अकरोत्।
मल्होत्रा अवदत् यत् डॉ. साहिबसिंह-वर्मा-महोदयस्य सरलता, प्रामाणिकता, सङ्गठनं प्रति निष्ठा च अद्यापि कार्यकर्तृभ्यः प्रेरणास्रोतः अस्ति। तस्य जीवनं जनसेवायाः मार्गे अग्रे गन्तुं सर्वान् प्रेरयति।
सः अपि अवदत् यत् भारतीय-जनता-पक्ष-परिवारः देहल्याः जनताऽपि च तस्य योगदानं सदैव स्मरिष्यति तथा तस्य आदर्शेभ्यः प्रेरणां प्राप्स्यति।
उल्लेखनीयम् अस्ति यत् अद्य पूर्वाह्णे घेवरा-स्थिते समाधि-स्थले डॉ. साहिबसिंह-वर्मा-महोदयस्य पत्नी साहिब-कौर:, ज्येष्ठः पुत्रः तथा देहली-सर्वकारस्य मन्त्री प्रवेश-साहिबसिंहः, कनिष्ठः पुत्रः सिद्धार्थ-साहिबसिंहः सपत्नीकं यज्ञं कृतवन्तः। सहस्रशः पक्ष-कार्यकर्तृभिः सह देहली-सर्वकारस्य मन्त्री सरदार-मनजिन्दर-सिंह-सिरसा, देहली-भाजपा-महामन्त्री तथा सांसदः योगेन्द्र-चान्दोलिया इत्यादयः अपि देहली-जनतायाः पक्षतः श्रद्धासुमनानि अर्पितवन्तः।
/ अंशु गुप्ता