अमित शाहः विमोचितम् एफसीआरए 2.0 पटलम् ई-ओसीआईपत्रं च, विदेशी अंशदानस्य भविष्यति वर्त्मनि निरीक्षणम्
नवदिल्ली, 30 जूनमासः (हि.स.)। केन्द्रीयगृहसहकारितामन्त्री अमितशाहः मङ्गलवासरे एफसीआरए २.० पटलम् तथा ई ओसीआई इलेक्ट्रॉनिक ओवरसीज सिटिजन ऑफ इण्डिया कार्डस्य शुभारम्भम् अकरोत्। सः अवदत् यत् एताभ्यां उभाभ्यां डिजिटलपहलाभ्यां नागरिकानां सुविधाः वर्धिष
केंद्रीय गृह एवं सहकारिता मंत्री अमित शाह मंगलवार को एफसीआरए 2.0 पोर्टल का शुभारंभ करते हुए


नवदिल्ली, 30 जूनमासः (हि.स.)।

केन्द्रीयगृहसहकारितामन्त्री अमितशाहः मङ्गलवासरे एफसीआरए २.० पटलम् तथा ई ओसीआई इलेक्ट्रॉनिक ओवरसीज सिटिजन ऑफ इण्डिया कार्डस्य शुभारम्भम् अकरोत्। सः अवदत् यत् एताभ्यां उभाभ्यां डिजिटलपहलाभ्यां नागरिकानां सुविधाः वर्धिष्यन्ते कागदपत्रसम्बद्धकार्यभारः न्यूनः भविष्यति तथा विदेशीयांशदानस्य एफसीआरए वास्तविकसमयनिगरानी सुनिश्चिता भविष्यति।

अत्र आयोजिते कार्यक्रमे गृहसचिवः गोविन्दमोहनः विदेशसचिवः विक्रममिसरी आसूचनाब्यूरोस्य विशेषनिदेशकः महेशदीक्षितः अन्ये वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।

अमितशाहः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः न्यूनतमं शासनम् अधिकतमं सुशासनम् इति दृष्टेः अनुरूपं प्रौद्योगिक्याः माध्यमेन शासनं अधिकं पारदर्शि सरलं सुरक्षितं च क्रियते। सः अवदत् यत् एफसीआरए व्यवस्था पूर्वं सञ्चिकासु जटिलप्रक्रियासु च निमग्ना आसीत् किन्तु अधुना तस्याः आधुनिकीकरणं कृत्वा अधिका प्रभावकारिता प्राप्ता।

सः अवदत् यत् एफसीआरए २.० पटलेन अधुना आवेदनं नवीनीकरणं वार्षिकविवरणीसमर्पणं सहिताः सर्वाः प्रमुखप्रक्रियाः पूर्णतया डिजिटलरूपेण भविष्यन्ति। अनेन भौतिकरूपेण प्रपत्रसमर्पणस्य आवश्यकता समाप्ता भविष्यति। ई साइन आधारितप्रमाणीकरणम् ओसीआर आधारितदस्तावेजविश्लेषणम् एनजीओ दर्पणसहितैः विविधैः शासकीयदत्तांशसङ्ग्रहैः सह एकीकृतसत्यापनम् इत्यादयः सुविधाः उपलब्धाः भविष्यन्ति। पोर्टलस्य माध्यमेन विदेशीयांशदानस्य प्राप्तेः उपयोगस्य च प्रभावी वास्तविकसमयनिगरानी सम्भविष्यति येन राष्ट्रसुरक्षा सुशासनं च अधिकं सुदृढं भविष्यति।

गृहमन्त्री अवदत् यत् आगामिमासेषु एफसीआरए मोबाइल अनुप्रयोगः कृत्रिमबुद्धिमत्ता आधारितसंवादसहायकः तथा वित्तसंस्थानानां कृते समर्पितः ऑनलाइन डैशबोर्डः अपि प्रारभ्यते।

शाहः ई ओसीआई कार्डं विदेशेषु निवसतां भारतीयमूलजनानां कृते महतीं सुविधां वर्णयन् अवदत् यत् अनेन पञ्चाशल्लक्षाधिकानां ओसीआई कार्डधारकाणां लाभः भविष्यति। सः अवदत् यत् अधुना विंशतिवर्षीयवयः प्राप्तेः अनन्तरं नूतनपारपत्रनिर्गमने ओसीआई पुस्तिकायाः पुनर्निर्माणस्य आवश्यकता न भविष्यति। कार्डधारिणः केवलं स्वस्य नूतनपारपत्रविवरणं ऑनलाइन अद्यतनीकर्तुं आवश्यकम्। डिजिटल ओसीआई कार्डस्य कारणात् दस्तावेजनष्टत्वस्य क्षतिग्रस्तत्वस्य च समस्या समाप्ता भविष्यति तथा वास्तविकसमये सत्यापनसुविधा अपि उपलब्धा भविष्यति।

उल्लेखनीयम् अस्ति यत् विदेशीयांशदान विनियमन अधिनियमस्य एफसीआरए अन्तर्गतं देशे सम्प्रति प्रायः चतुर्दशसहस्रपञ्चशतानि सक्रियसङ्घटनानि पञ्जीकृतानि सन्ति। प्रतिवर्षं प्रायः पञ्चदशसहस्रात् विंशतिसहस्रपर्यन्तानि नूतनानि नवीनीकरणसम्बद्धानि च आवेदनानि तथा प्रायः सप्तदशसहस्र वार्षिकविवरण्यः प्राप्यन्ते। एफसीआरए २.० पोर्टलः मेघराज राष्ट्रियशासकीयमेघमञ्चे विकसितः अस्ति तथा पैन आधार ओसीआई एनजीओ दर्पण आईसीएआई यूडीआईएन प्रणाली वित्तसंस्थानैः च सहितं विविधाभिः शासकीयप्रणालीभिः सह संयोजितः अस्ति। अनेन आवेदनानां निस्तारणे शीघ्रता भविष्यति अनुपालननिगरानी सुदृढा भविष्यति विदेशीयांशदानस्य दुरुपयोगे प्रभावी नियन्त्रणं च सुनिश्चितं भविष्यति।

तथैव ई ओसीआई कार्डव्यवस्थायाः अन्तर्गतं आवेदनात् आरभ्य कार्डनिर्गमनपर्यन्ता सम्पूर्णा प्रक्रिया ऑनलाइन भविष्यति। अनेन भौतिकदस्तावेजानां आवश्यकता समाप्ता भविष्यति प्रक्रियासमयः न्यूनः भविष्यति प्रशासनिकव्ययः अपि न्यूनीभविष्यति तथा विमानस्थानकेषु डिजिटलसत्यापनस्य माध्यमेन यात्रा अधिका सुगमा सुरक्षिती च भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani