जनरल उपेंद्र द्विवेदी ने विदाई भाषण में अपने कार्यकाल को बताया-'जिंदगी का सबसे बड़ा सौभाग्य'
- आर्मी स्टाफसंबद्धो वाइस चीफ जनरल धीरज सेठो नूतन सेना प्रमुखस्य पदं संभालितम् नव दिल्ली, 30 जूनमासः (हि.स.)। वर्तमानः सेनाध्यक्षः जनरल उपेन्द्र द्विवेदी अद्य मध्याह्ने सेवानिवृत्तः अभवत्। तस्य सेवानिवृत्तेः अनन्तरं लेफ्टिनेन्ट जनरल धीरज सेठः देशस
जनरल उपेंद्र द्विवेदी को नई दिल्ली के साउथ ब्लॉक लॉन्स में गार्ड ऑफ ऑनर दिया गया


- आर्मी स्टाफसंबद्धो वाइस चीफ जनरल धीरज सेठो नूतन सेना प्रमुखस्य पदं संभालितम्

नव दिल्ली, 30 जूनमासः (हि.स.)। वर्तमानः सेनाध्यक्षः जनरल उपेन्द्र द्विवेदी अद्य मध्याह्ने सेवानिवृत्तः अभवत्। तस्य सेवानिवृत्तेः अनन्तरं लेफ्टिनेन्ट जनरल धीरज सेठः देशस्य नूतनः सेनाध्यक्षः अभवत्। जनरल उपेन्द्र द्विवेदी स्वस्य विदायीभाषणे स्वकार्यकालं जीवनस्य महत्तमं सौभाग्यम् इति अवदत्। जनरल द्विवेदी सैनिकेभ्यः पूर्वसैनिकेभ्यः तेषां परिवारजनभ्यः देशस्य नागरिकेभ्यश्च तेषाम् अटूटसहयोगाय कृतज्ञतां प्रकटितवान्। तेन राष्ट्रिययुद्धस्मारके पुष्पचक्रम् अर्पितम् तथा नवीदिल्लीस्थे साउथ ब्लॉक लॉन्स इति स्थले तस्मै गार्ड ऑफ ऑनर प्रदत्तः।

सेनाध्यक्षपदस्य उत्तरदायित्वं जनरल धीरज सेठाय समर्प्य जनरल उपेन्द्र द्विवेदी मङ्गलवासरे भारतीयसेनायां चत्वारिंशत् वर्षेभ्यः अधिककालपर्यन्तं सेवां कर्तुं स्वजीवनस्य महत्तमं सौभाग्यम् इति अवदत्। तेन उक्तं यत् अद्य अहम् एतदुत्तरदायित्वं जनरल धीरज सेठाय समर्पयामि। सः अनुभवी सैनिकः समर्थः नेतृत्वकर्ता च अस्ति। मम पूर्णः विश्वासः अस्ति यत् तस्य नेतृत्वे भारतीयसेना स्वस्य गौरवशालिनः परम्पराः व्यावसायिकतां दृढसंकल्पं च धारयन्ती अधिकान् शिखरान् प्राप्स्यति। अद्य यदा अहम् एतत् उत्तरदायित्वं तस्मै समर्पयामि तदा भारतीयसेनायाः भविष्ये मम पूर्णः विश्वासः अस्ति। भारतस्य सेना स्वपरम्परासु दृढा भविष्यति वर्तमानचुनौत्यः प्रति सदैव सजगा भविष्यति भविष्ये आगच्छन्तीनां सर्वासां परिस्थितीनां कृते निरन्तरं सिद्धा भविष्यति।

विदायीसमारोहे जनरल द्विवेदी अवदत् यत् सेनाध्यक्षत्वेन स्वकार्यकालस्य समापनसमये अहं विनयेन कृतज्ञतया गौरवेण सन्तोषेण च परिपूर्णः अस्मि। सैनिकविद्यालयात् आरभ्य अस्मिन् क्षणे यावत् मम यात्रा कदापि न विस्मरणीया भविष्यति। गतयोः द्वयोः वर्षयोः भारतीयसेना सर्वेषु मोर्चेषु उच्चस्तरीयां सज्जतां सतर्कतां च धारितवती। अस्मिन् ऑपरेशन स्नो लेपर्ड तथा ऑपरेशन सिन्दूर इत्येतयोः सफलतापि अन्तर्भवति। तेन एतत् अपि प्रतिपादितम् यत् त्रिषु सेनासु दृढः समन्वयः राष्ट्रियसुरक्षायाम् देशस्य नूतनमानदण्डस्य निर्माणे महत्त्वपूर्णां भूमिकाम् अवहत्। ऑपरेशन स्नो लेपर्ड अन्तर्गतं उत्तरसीमासु अस्माकं तैनाती शक्त्या सतर्कतया च परिचिता अभवत्। पश्चिममोर्चे अपि सेना पूर्णगाम्भीर्येण संयमेन च स्वकर्तव्यं सम्यक् अपालयत्।

जनरल द्विवेदी अवदत् यत् भविष्यस्य युद्धानि अधिकाधिकं संयुक्तरूपेण एकीकृतकार्यप्रणाल्यां आधारितानि भविष्यन्ति। अतः अस्माकं दिशा स्पष्टा अस्ति। सह पश्येम सह निर्णयं कुर्याम सह कार्यं कुर्याम। तेन उक्तं यत् भारतीयसेना स्वशक्तिं कस्यचित् एकस्य व्यक्तेः न प्राप्नोति अपितु स्वसैनिकेभ्यः सेनानायकभ्यः पूर्वसैनिकेभ्यः तेषां परिवारेभ्यः देशस्य नागरिकेभ्यश्च प्राप्तेन अटूटविश्वासेन एव प्राप्नोति। अहं भारतीयसेनायाः प्रत्येकं सैनिकं श्रद्धया नमामि। तेषु ते अपि अन्तर्भवन्ति ये कर्तव्यपालनकाले स्वस्य सर्वोच्चं बलिदानं दत्तवन्तः।---------------------

Hindusthan Samachar / Dheeraj Maithani