दादाभाई नौरोजेः पुण्यतिथौ राज्यपालेन दत्तश्श्रद्धांजलिः
भुवनेश्वरम्, 30 जूनमासः (हि.स.)। ओडिशाराज्यस्य राज्यपालः हरिबाबू कंभमपटि डाक्टर हरिबाबू कंभमपटिः भारतस्य स्वातन्त्र्यसङ्ग्रामस्य अग्रणीषु अन्यतमस्य दादाभाई नौरोजी पुण्यतिथौ मङ्गलवासरे तस्मै श्रद्धाञ्जलिम् अर्पितवान्। राज्यपालः सामाजिकमाध्यमे प्रका
हरि बाबू कंभमपटि


भुवनेश्वरम्, 30 जूनमासः (हि.स.)।

ओडिशाराज्यस्य राज्यपालः हरिबाबू कंभमपटि डाक्टर हरिबाबू कंभमपटिः भारतस्य स्वातन्त्र्यसङ्ग्रामस्य अग्रणीषु अन्यतमस्य दादाभाई नौरोजी पुण्यतिथौ मङ्गलवासरे तस्मै श्रद्धाञ्जलिम् अर्पितवान्। राज्यपालः सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे उक्तवान् यत् दादाभाई नौरोजी भारतस्य स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः प्रेरणास्रोतः आसीत्। स्वशासनस्य सामाजिकन्यायस्य राष्ट्रस्य प्रगतेः च प्रति तस्य दूरदर्शिनी चिन्तनपद्धतिः बौद्धिकनेतृत्वम् अटुटसमर्पणं च अद्यापि पीढीपरम्परया देशवासिनः प्रेरयति। तेन उक्तं यत् राष्ट्रनिर्माणे स्वातन्त्र्यसङ्ग्रामे च दादाभाई नौरोजी महोदयस्य अमूल्यं योगदानं सदा स्मरणीयं भविष्यति तथा च तस्य आदर्शाः आगामिसंततीनां कृते प्रेरणायाः स्रोतः भवितुम् अर्हन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani