सीयू-विश्वविद्यालयस्य डॉ. सचिन-उपमन्युः डब्ल्यूआईआई-सोसाइटी-सदस्यत्वाय नामितः
धर्मशाला, ३० जूनमासः (हि.स.)। हिमाचलप्रदेश-केन्द्रीय-विश्वविद्यालयस्य जीवन-विज्ञान-सङ्कायस्य पादप-विज्ञान-विभागस्य विभागाध्यक्षः सह-आचार्यः च डॉ. सचिन-उपमन्युः भारतीय-वन्यजीव-संस्थायाः त्रिवर्षीयावधये सदस्यत्वाय नामितः। देहरादून-स्थितं भारतीय-वन्य
डॉ सचिन उपमन्यु।


धर्मशाला, ३० जूनमासः (हि.स.)। हिमाचलप्रदेश-केन्द्रीय-विश्वविद्यालयस्य जीवन-विज्ञान-सङ्कायस्य पादप-विज्ञान-विभागस्य विभागाध्यक्षः सह-आचार्यः च डॉ. सचिन-उपमन्युः भारतीय-वन्यजीव-संस्थायाः त्रिवर्षीयावधये सदस्यत्वाय नामितः।

देहरादून-स्थितं भारतीय-वन्यजीव-संस्थानम् वन्यजीव-अनुसन्धानाय, जैव-विविधता-संरक्षणाय, क्षमता-निर्माणाय तथा नीतिगत-सहयोगाय समर्पितं देशस्य अग्रणी राष्ट्रिय-संस्थानम् अस्ति। डब्ल्यूआईआई-सोसाइटी संस्थायाः सर्वोच्च: शासकीय-निकायः अस्ति, यस्मिन् देशस्य प्रतिष्ठिताः नीतिनिर्मातारः, संसद्सदस्याः, वरिष्ठ-शासकीय-अधिकारिणः, प्रख्यात-विज्ञानिनः, शिक्षाविदः तथा संरक्षण-विशेषज्ञाः समाविष्टाः सन्ति। डॉ. उपमन्युः प्रख्यात-शिक्षाविद्-वैज्ञानिक: इति वर्गान्तर्गतः अनुसन्धाने, उच्च-शिक्षायाम्, वैज्ञानिक-नवाचारे तथा सतत-विकासस्य क्षेत्रे तस्य उल्लेखनीय-योगदानस्य कृते सदस्यत्वाय नामितः।

अपरतः विश्वविद्यालय-परिवारेण डॉ. सचिन-उपमन्युं एतस्य गौरवपूर्णस्य उपलब्धेः निमित्तं शुभकामनाः प्रदत्ताः। तैः भारतीय-वन्यजीव-संस्थायाः वन्यजीव-संरक्षणे, पर्यावरणीय-सतततायां वैज्ञानिक-उत्कृष्टतायां च समर्पिते ध्येये तस्य सफलं सार्थकं च योगदानं भविष्यतीति शुभेच्छा व्यक्ता।

Hindusthan Samachar / Divya Ranjan