राष्ट्रपतिना, लोकसभा अध्यक्षेण च सहिताःबहवो नेतारो 'हूल दिवसे वीरेभ्योऽददुः श्रद्धांजलिम्
नव दिल्ली, 30 जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः लोकसभाध्यक्षः ओम् बिरला सहकारितामन्त्री गृहमन्त्री च अमित शाह सहिताः अनेकाः नेतारः मङ्गलवासरे हूलदिवसस्य अवसरे भारतस्य स्वतन्त्रतायै जनजातीयास्मितायै सामाजिकन्यायाय च स्वप्राणानां सर्वोच्
प्रतीकात्मक


नव दिल्ली, 30 जूनमासः (हि.स.)।

राष्ट्रपतिः द्रौपदी मुर्मुः लोकसभाध्यक्षः ओम् बिरला सहकारितामन्त्री गृहमन्त्री च अमित शाह सहिताः अनेकाः नेतारः मङ्गलवासरे हूलदिवसस्य अवसरे भारतस्य स्वतन्त्रतायै जनजातीयास्मितायै सामाजिकन्यायाय च स्वप्राणानां सर्वोच्चं बलिदानं कृतवन्तः अमरवीरान् विनम्रश्रद्धाञ्जलिम् अर्पितवन्तः।

राष्ट्रपतिः मुर्मुः एक्स इत्यस्मिन् सामाजिकमाध्यममञ्चे अवदत् हूलदिवसस्य अवसरे सिदो कान्हू चान्द भैरव फूलो झानो तथा सन्थालविद्रोहस्य सर्वान् अमरवीरान् वीराङ्गनाश्च अहं सादरं नमामि। जनजातीयसमाजस्य शोषणस्य विरुद्धं तेषाम् अस्मितारक्षणाय च तैः ऐतिहासिकः संघर्षः कृतः। तेषां शौर्यं त्यागः बलिदानं च सर्वान् देशवासिनः सदा प्रेरयिष्यति।

बिरला अवदत् यत् अद्य महान् क्रान्तिकारी सिदो कान्हू इत्येतयोः नेतृत्वे सम्पन्नस्य ऐतिहासिकस्य सन्थाल हूल आन्दोलनस्य तान् सहस्रशः वीरान् जनजातीयान् स्त्रीपुरुषान् नमामः ये औपनिवेशिकशासनस्य शोषणस्य अन्यायस्य च विरुद्धम् अदम्यसाहसेन संघर्षस्य दुन्दुभिम् अवादयन्। जलस्य वनस्य भूमेः स्वाभिमानस्य स्वस्य अस्तित्वस्य च रक्षणाय कृतः अयं महान् जनान्दोलनः आसीत्। अनेन जनक्रान्त्या भारतीयस्वातन्त्र्यसंग्रामः नूतनाम् ऊर्जाम् अलभत तथा अनन्तरं बहूनाम् आन्दोलनानाम् प्रेरणास्रोतः अभवत्। तेषाम् अमरहुतात्मनाम् शौर्यं त्यागः राष्ट्रप्रेम च आगामिपीढीः सदा प्रेरयिष्यति।

अमित शाह अवदत् यत् जनजातीयस्वाभिमानस्य स्वतन्त्रतासंग्रामस्य च महानायकाः सिदो कान्हू मुर्मु चान्द भैरव तथा वीराङ्गने फूलो झानो आङ्ग्लशासनस्य विरुद्धम् एवं संघर्षशङ्खनादम् अकुर्वन् येन पराधीनतायाः विरुद्धं जनजनस्य अन्तः प्रतिरोधचेतना जागरिता।

केन्द्रीयः संस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः अवदत् यत् सन्थाल हूलदिवसः जनजातीयसमुदायेन स्वतन्त्रतायै कृतस्य संघर्षस्य प्रतीकः अस्ति। अद्यतनः दिवसः तेषां महानां देशभक्तानां स्मरणस्य दिवसः अस्ति ये अन्यायस्य अत्याचारस्य च विरुद्धं युद्धं कुर्वन्तः स्वसमग्रं जीवनं राष्ट्राय समर्पितवन्तः।

Hindusthan Samachar / Dheeraj Maithani