Enter your Email Address to subscribe to our newsletters

जल-जंगल-जमीन इत्येषां रक्षायै संघर्षः सक्रियः , पुर्वजानां स्वप्नःभविष्यति पूर्णः : मुख्यमंत्री
रांची, 30 जूनमासः (हि.स.)। झारखण्डराज्यस्य मुख्यमन्त्री हेमंत सोरेन मङ्गलवासरे हूलदिवसस्य अवसरे हूलक्रान्तेः वीरशहीदेभ्यः श्रद्धाञ्जलिम् अर्पितवान्। तेन अमरशहीदान् सिदो कान्हू चान्दः भैरवः वीराङ्गने फूलो झानो चुन्नीमाञ्झी सुबीहांसदा च प्रणम्य हूलजोहार इति उक्तम्।
मुख्यमन्त्री सामाजिकमाध्यममञ्चे एक्स इति माध्यमे प्रकाशिते स्वसन्देशे उक्तवान् यत् त्रिंशत् जून अष्टादशशतपञ्चपञ्चाशत्तमे वर्षे भोगनाडीह ग्रामात् आरब्धा हूलक्रान्तिः शोषणस्य अन्यायस्य च विरुद्धं सङ्घर्षस्य ऐतिहासिकं प्रतीकम् अस्ति। वीरपूर्वजैः जलस्य वनस्य भूमेः भाषायाः संस्कृतेः परिचयस्य च रक्षणार्थं स्वसर्वस्वं समर्पितम् किन्तु ते अन्यायस्य पुरतः कदापि न अवनताः।
तेन उक्तं यत् झारखण्डस्य परिचयः स्ववीरपूर्वजानां सङ्घर्षेण बलिदानेन च निर्मितः अस्ति तथा च तेषां त्यागः आगामिपीढीनां कृते सदा प्रेरणास्रोतः भविष्यति। राज्यस्थापनस्य पञ्चविंशतिवर्षपूर्तेः अनन्तरं झारखण्डः नवीनया ऊर्जया नवीनेन सङ्कल्पेन च अग्रे गच्छति। राज्यशासनं वीरपूर्वजानां स्वप्नानां साकारार्थं जलवनभूमेः रक्षणार्थं च निरन्तरं कार्यं करिष्यति।
मुख्यमन्त्री स्वसन्देशस्य अन्ते हूलजोहार जोहारझारखण्ड जयझारखण्ड इति उद्घोषं कृतवान्।----------
Hindusthan Samachar / Dheeraj Maithani