पूर्व-केन्द्रीयमन्त्री अश्विनी-कुमार-चौबे आदिवासी-समाजेन सह हूल-दिवसम् अमन्यत, अमर-बलिदानिभ्यः श्रद्धाञ्जलिम् अर्पितवान्
राञ्चीनगरम्, ३० जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य वरिष्ठ-नेता पूर्व-केन्द्रीयमन्त्री च अश्विनी-कुमार-चौबे मङ्गलवासरे राञ्ची-जनपदस्य बेड़ो-प्रखण्डस्य डुमरी-मसिया-ग्रामे आदिवासी-समाजेन सह हूल-दिवसम् अमन्यत। अस्मिन्नवसरे तेन हूल-क्रान्तेः महानायकाः
अश्वनी कुमार चौबे श्रद्धांजलि देते हुए


राञ्चीनगरम्, ३० जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य वरिष्ठ-नेता पूर्व-केन्द्रीयमन्त्री च अश्विनी-कुमार-चौबे मङ्गलवासरे राञ्ची-जनपदस्य बेड़ो-प्रखण्डस्य डुमरी-मसिया-ग्रामे आदिवासी-समाजेन सह हूल-दिवसम् अमन्यत। अस्मिन्नवसरे तेन हूल-क्रान्तेः महानायकाः वीर-सिदो-कान्हू, चाँद-भैरव:, वीराङ्गना फूलो-झानो तथा हूल-आन्दोलनस्य सर्वेभ्यः अमर-बलिदानिभ्यः श्रद्धाञ्जलिः अर्पिता, तेषाम् अद्वितीय-साहसं त्यागं बलिदानं च प्रणम्य स्मृतम्।

कार्यक्रमम् सम्बोधयन् अश्विनी-कुमार-चौबे अवदत् यत् हूल-दिवसः केवलम् ऐतिहासिक-तिथिः न, अपितु अन्यायस्य शोषणस्य विदेशी-शासनस्य च विरुद्धं जनजातीय-समाजस्य अदम्य-साहसस्य स्वाभिमानस्य संघर्षस्य च अमर-प्रतीकः अस्ति। तेन उक्तं यत् सिदो-कान्हू, चाँद-भैरव:, फूलो-झानो तथा हूल-क्रान्तेः अन्ये वीर-सेनानिनः जल-जङ्गल-भूमेः स्वकीय-अस्मितायाश्च रक्षणार्थं यत् बलिदानम् अददुः, तत् सर्वेषां देशवासिनां कृते सदा प्रेरणास्रोतः भविष्यति।

तेन उक्तं यत् प्रधानमन्त्री नरेन्द्र-मोदिनः नेतृत्वे केन्द्रीय-सर्वकारः जनजातीय-समाजस्य सम्मानाय, शिक्षायै, स्वास्थ्याय, रोजगाराय, समग्र-विकासाय च निरन्तरं कार्यं करोति। तस्य मते जनजातीय-क्षेत्रेषु आधारभूत-सुविधानां विस्तारः, सामाजिक-सशक्तीकरणं विकासश्च केन्द्रीय-सर्वकारस्य प्राथमिकतासु समाविष्टाः सन्ति।

अस्मिन्नवसरे अश्विनी-कुमार-चौबे झारखण्ड-सर्वकारम् जनजातीय-क्षेत्राणाम् उपेक्षायाः विषये आरोपम् अकरोत्। तेन उक्तं यत् शिक्षा, स्वास्थ्यं, रोजगारः, मार्गाः, शुद्ध-पेयजलम् अन्याश्च आधारभूत-सुविधाः इत्येषां विकासे अपेक्षितं ध्यानं न दत्तम्। तेन उक्तं यत् आदिवासी-समाजः केवलं मतसंग्रहस्य साधनरूपेण न द्रष्टव्यः, अपितु झारखण्डस्य परिचयः, संस्कृतिः, गौरवं च इति दृष्ट्या अवलोकनीयः। तेन दावीकृतं यत् भारतीय-जनता-पक्षः जनजातीय-समाजस्य सम्मानाय, सुरक्षायै, सर्वाङ्गीण-विकासाय च सदा प्रतिबद्धः आसीत्, अग्रेऽपि तादृश्येव भावनया कार्यं करिष्यति।

अस्मिन् कार्यक्रमे माण्डर-विधानसभा-क्षेत्रस्य पूर्व-विधायिका गङ्गोत्री-कुजूर, भाजपा-अध्यक्षः बलराम-सिंहः, महामन्त्री मनोज-कुमार-शाहः, उपाध्यक्षः अरुण-कुमारः, के.के.-मिश्रः, अशोकः, बिरसा-उरांवः, टी.एन.-मिश्रः, नरेन्द्र-पाठकः, भारतीय-जनता-पक्षस्य अन्ये बहवः पदाधिकारिण:, कार्यकर्तारः, स्थानीय-ग्रामीणाः आदिवासी-समाजस्य बहु-संख्यकाः जनाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan