विधायकस्य प्रयत्ने रुग्णबालस्य चिकित्सायै मुख्यमंत्रिरक्षणकोषादमिलत् एकलक्षम्
पूर्वी सिंहभूमः, 30 जूनमासः (हि.स.)।घाटशिलाप्रखण्डस्य नयाग्रामनिवासी सन्तोषकुमारमिश्रः यः शाकविक्रयणेन स्वपरिवारस्य जीवननिर्वाहं करोति सः स्वस्य चतुर्मासीयायाः पुत्र्याः विहामिश्रायाः चिकित्सार्थं दीर्घकालात् आर्थिकसङ्कटस्य सामना करोति। गम्भीररोगेण
विधायक पूर्णिमा साहू का फाइल फोटो


पूर्वी सिंहभूमः, 30 जूनमासः (हि.स.)।घाटशिलाप्रखण्डस्य नयाग्रामनिवासी सन्तोषकुमारमिश्रः यः शाकविक्रयणेन स्वपरिवारस्य जीवननिर्वाहं करोति सः स्वस्य चतुर्मासीयायाः पुत्र्याः विहामिश्रायाः चिकित्सार्थं दीर्घकालात् आर्थिकसङ्कटस्य सामना करोति। गम्भीररोगेण पीडितायाः बालिकायाः चिकित्सायां परिवारस्य समस्ता सञ्चिता धनराशिः व्ययिता अभवत्। ततः परं तेन जनप्रतिनिधिभ्यः सहाय्यार्थं प्रार्थना कृता।

मङ्गलवासरे प्रकाशितायां विज्ञप्तौ उक्तं यत् जमशेदपुरपूर्वक्षेत्रस्य विधायकायाः पूर्णिमा साहू प्रयत्नेन विहामिश्रायाः चिकित्सार्थं मुख्यमन्त्रिराहतनिधेः एकलक्षरूप्यकाणां आर्थिकसहायता स्वीकृता। उक्तं यत् जन्मनः कतिपयदिनानन्तरमेव विहामिश्रा मेकोनियम एस्पिरेशन सिन्ड्रोम तथा राइट सबड्यूरल हेमाटोमा इति गम्भीरचिकित्सकीयसमस्याभ्यां पीडिता अभवत्। बालिकायाः अवस्था अत्यन्तं गम्भीरा अभवत् इति कारणात् तां मुम्बईनगरस्य चिकित्सालये प्रवेश्य मस्तिष्कशल्यचिकित्सा कारिता। अद्यावधि तस्याः चिकित्सायां प्रायः चतुर्दशलक्षरूप्यकाणि व्ययितानि सन्ति। चिकित्सकैः अग्रे अपि अन्यस्याः शल्यचिकित्सायाः आवश्यकता उक्ता अस्ति यस्य कृते प्रायः पञ्चलक्षरूप्यकाणां अतिरिक्तधनराशिः अपेक्ष्यते।

आर्थिकसङ्कटेन पीडितः सन्तोषकुमारमिश्रः स्वपुत्र्याः चिकित्सार्थं विधायकां पूर्णिमासाहूम् सहाय्यार्थम् अपीलं कृतवान्। प्रकरणस्य गम्भीरतां दृष्ट्वा विधायकया मुख्यमन्त्रिकार्यालयं प्रति पत्रं प्रेष्य मुख्यमन्त्रिराहतनिधेः आर्थिकसहयोगस्य उपलब्ध्यर्थम् अनुरोधः कृतः।

विज्ञप्त्यानुसारं विधायकायाः अनुशंसायाः आधारेण मुख्यमन्त्रिकार्यालयेन विहामिश्रायाः उपचारार्थं मुख्यमन्त्रिराहतनिधेः एकलक्षरूप्यकाणां सहायता स्वीकृता तथा परिवाराय धनादेशः प्रदत्तः। विधायकया पूर्णिमासाहू मुख्यमन्त्रिकार्यालयस्य प्रति कृतज्ञता प्रकटिता तथा च ईश्वरं प्रति प्रार्थना कृता यत् बालिका विहा शीघ्रं पूर्णस्वास्थ्यं प्राप्नुयात्।

---------------

Hindusthan Samachar / Dheeraj Maithani