Enter your Email Address to subscribe to our newsletters

रांची, 30 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्री अमितशाह तथा भाजपायाः राष्ट्रियाध्यक्षः नितिननवीन अपि मङ्गलवासरे हूलदिवसस्य अवसरे हूलक्रान्तेः महानायकान् श्रद्धासुमनैः अभ्यर्चितवन्तः। एते नेतारः सामाजिकमाध्यमे एक्स इत्यत्र सन्देशं प्रकाशित्य जनजातीयसमाजस्य महानायकानां साहसं समादृतवन्तः।
प्रधानमन्त्री नरेन्द्रमोदी लिखितवान् यत् हूलदिवसः मातृभूमेः कृते प्राणत्यागं कृतवतां अस्माकम् आदिवासीसमाजस्य अद्भुतसाहसस्य सशक्तः प्रतीकः अस्ति। भारतीयइतिहासस्य अस्मिन् गौरवमये अवसरे सिदोकान्हू चान्दभैरव फूलोझानो इत्यादीनां सर्वेषां वीराणां वीराङ्गनानां च मम सादरश्रद्धाञ्जलिः ये विदेशिशासनस्य अन्यायस्य दृढतया प्रतिकारं कृतवन्तः। जनजातीयगौरवरक्षणाय मानसम्मानरक्षणाय च तेषां संघर्षस्य बलिदानस्य च कथा देशवासिषु नूतनाम् ऊर्जां निरन्तरं सञ्चारयिष्यति।
राष्ट्रियाध्यक्षः नितिननवीन भारतस्य जनजातीयस्वातन्त्र्यसंग्रामस्य महानायकान् सिदोकान्हू चान्द भैरवमुर्मू सहितान् सर्वान् वीरक्रान्तिकारिणः विनम्रश्रद्धाञ्जलिं समर्प्य उक्तवान् यत् सन्थालक्रान्तिः अन्यायस्य शोषणस्य आङ्ग्लशासनस्य च विरुद्धं स्वाभिमानस्य साहसस्य जनप्रतिरोधस्य च एतादृशीं चेतनाम् अजनयत् या भारतस्य स्वातन्त्र्यसंग्रामाय नूतनां दिशं प्रदत्तवती। एतेषाम् अमरसेनानीनां अद्वितीयं बलिदानम् अस्माकं जनजातीयगौरवपरम्परायाः राष्ट्रभक्तेः च अटूटसंकल्पस्य प्रेरणास्रोतः भविष्यति।
गृहमन्त्री अमितशाह जनजातीयअस्मितायै मातृभूमेः कृते च सन्थालक्रान्तौ स्वसर्वस्वं समर्पितवतां सर्वेषां बलिदानिनां हूलदिवसस्य अवसरे स्मरणं कृत्वा नमनं कृतवान्। सः उक्तवान् यत् जनजातीयस्वाभिमानस्य स्वातन्त्र्यसंग्रामस्य च महानायकाः सिदोकान्हूमुर्मू चान्दभैरव तथा वीराङ्गनाः फूलोझानो आङ्ग्लशासनस्य विरुद्धं संघर्षस्य एतादृशं शङ्खनादम् अकुर्वन् येन पराधीनतायाः विरुद्धं जनजनस्य मध्ये प्रतिरोधचेतना प्रसृता।
---------------
Hindusthan Samachar / Dheeraj Maithani