अपराध नियंत्रणं त्यक्त्वा यातायातपरिशीलने उज्झितं पुलिसदलम् : कन्हैया सिंह
पूर्वी सिंहभूमः, 30 जूनमासः (हि.स.)। बिष्टुपुरस्थस्य डी डी बार समीपे छुरिकाप्रहारघटनायां आहतस्य युवकस्य हिमांशु सिंहस्य मृत्योः अनन्तरम् आजसू दलं नगरस्य विधिव्यवस्थायाः विषये गम्भीरान् प्रश्नान् उत्थापितवान्। दलस्य पूर्वीसिंहभूमजनपदाध्यक्षः कन्है
आजसू जिला अध्यक्ष कन्हैया सिंह की फाइल फोटो


पूर्वी सिंहभूमः, 30 जूनमासः (हि.स.)।

बिष्टुपुरस्थस्य डी डी बार समीपे छुरिकाप्रहारघटनायां आहतस्य युवकस्य हिमांशु सिंहस्य मृत्योः अनन्तरम् आजसू दलं नगरस्य विधिव्यवस्थायाः विषये गम्भीरान् प्रश्नान् उत्थापितवान्। दलस्य पूर्वीसिंहभूमजनपदाध्यक्षः कन्हैया सिंहः उक्तवान् यत् जमशेदपुरनगरे निरन्तरं वर्धमानाः अपराधघटनाः एतत् प्रदर्शयन्ति यत् अपराधिनां धैर्यं वर्धितम् अस्ति यदा तु पुलिसस्य अधिकं ध्यानं यातायातपरीक्षणाभियानेषु केन्द्रितम् दृश्यते। तस्य कथनम् अस्ति यत् सामान्यजनानां सुरक्षायाः सुनिश्चितीकरणाय अपराधनियन्त्रणे अधिका प्रभावी कार्यवाही अपेक्षिता अस्ति।

मङ्गलवासरे प्रेसविज्ञप्तिं प्रकाशित्य कन्हैया सिंहः उक्तवान् यत् बिष्टुपुरघटनया जनपदपुलिसस्य पुरतः महती चुनौती उत्पन्ना जाता। तेन उक्तं यत् नगरे निरन्तरं घटमानाभिः हिंसात्मकवारदाताभिः जनानाम् अन्तः असुरक्षाभावना वर्धते तथा पुलिसेन अपराधिनां विरुद्धं कठोरा निर्णायका च कार्यवाही करणीया।

आजसू दलस्य जनपदप्रवक्ता अप्पू तिवारी उक्तवान् यत् अस्मिन् सम्पूर्णे प्रकरणे पुलिसस्य भूमिकाविषये अनेकाः प्रश्नाः उत्थाप्यन्ते। तेन आरोपः कृतः यत् यदि घटनाकाले पुलिसेन समये कठोरता तत्परता च प्रदर्शिता अभविष्यत् तर्हि सम्भवतः आहतस्य युवकस्य प्राणाः रक्षिताः अभविष्यन्। तेन उक्तं यत् घटनाकाले पुलिसस्य उपस्थितेः चर्चा अपि समक्षम् आगता अस्ति अतः सम्पूर्णस्य प्रकरणस्य निष्पक्षा उच्चस्तरीया च जाँच कार्या।

अप्पू तिवारी उक्तवान् यत् यदि जाँचायां कस्यचित् पुलिसकर्मिणः प्रमादः अथवा कर्तव्यपालने त्रुटिः प्रकाशं प्राप्नोति तर्हि तस्य विरुद्धं विधेः अनुसारेण कठोरा कार्यवाही करणीया। तेन उक्तं यत् एतादृशेषु प्रकरणेषु उत्तरदायित्वस्य निर्धारणम् अत्यावश्यकम् अस्ति यथा भविष्ये एतादृश्याः घटनायाः पुनरावृत्तिः न भवेत्।

आजसू दलं राज्यसरकारं जनपदप्रशासनं च प्रार्थितवान् यत् बिष्टुपुरहत्याप्रकरणस्य सर्वे अभियुक्ताः शीघ्रं गृहीत्वा तेषां विरुद्धं कठोरा वैधानिकी कार्यवाही सुनिश्चितीक्रियताम्। सहैव नगरे चाकूप्रहार लुण्ठन तथा अन्येषां सङ्गठितापराधानां प्रभाविनियन्त्रणाय विशेषाभियानं सञ्चालयित्वा सामान्यनागरिकेषु सुरक्षाविश्वासः पुनः स्थाप्यताम्।

---------------

Hindusthan Samachar / Dheeraj Maithani