Enter your Email Address to subscribe to our newsletters

बेंगलुरुः, 30 जूनमासः (हि.स.)। कर्नाटकराज्यस्य मुख्यमन्त्री डी के शिवकुमारः मङ्गलवासरात् आरभ्यमाणे राज्यव्यापिनि मतदातृसूच्याः विशेषगहनपुनरीक्षण अभियाने एस आई आर सर्वान् पात्रमतदातॄन् सक्रियसहयोगं कर्तुम् आह्वानम् अकरोत्। तेन उक्तं यत् मतदातृसूच्यां सम्यक् अद्यतनसूचनानां अभिलेखनं लोकतान्त्रिकव्यवस्थायाः सुदृढीकरणाय अत्यावश्यकम् अस्ति।
मुख्यमन्त्री सामाजिकमाध्यममञ्चे एक्स इत्यत्र सूचनां प्रसारयन् अवदत् यत् त्रिंशत् जूनतः एकोनत्रिंशत् जुलैपर्यन्तं प्रचलितस्य गृहगृहसर्वेक्षण अभियानस्य अन्तर्गतं तेन बेङ्गलूरुनगरस्य सदाशिवनगरस्थिते स्वनिवासे स्वपरिवारस्य सदस्यैः सह मतदानकेन्द्रस्तरीयाधिकारिणे बी एल ओ आवश्यकदस्तावेजान् सूचनाश्च प्रदाय स्वयमपि अस्यां प्रक्रियायां सहभागिता कृता।
तेन उक्तं यत् राज्यस्य सर्वे नागरिकाः पात्रमतदातारश्च स्वगृहम् आगच्छन्तं बी एल ओ पूर्णसहयोगं प्रददतु तथा आवश्यकप्रपत्राणि सम्यक्सूचनाश्च समर्पयन्तु यथा मतदातृसूच्यां तेषां विवरणं निर्दोषम् अद्यतनं च अभिलेखितुं शक्येत।
मुख्यमन्त्री अवदत् यत् लोकतन्त्रं केवलं शासनव्यवस्था नास्ति अपितु प्रत्येकस्य नागरिकस्य स्वरः अस्ति तथा तस्य स्वरस्य प्रभावीकरणस्य सर्वाधिकं महत्त्वपूर्णं माध्यमं तस्य मतदानाधिकारः अस्ति। प्रत्येकं मतदानं राष्ट्रस्य भविष्यस्य दिशानिर्धारणे लोकतान्त्रिकव्यवस्थायाः सशक्तीकरणे च महत्त्वपूर्णां भूमिकां निर्वहति।
तेन सर्वान् पात्रमतदातॄन् आहूतवान् यत् ते समये आवश्यकदस्तावेजानि समर्प्य मतदातृसूच्याः विशेषगहनपुनरीक्षण अभियाने सक्रियरूपेण सहभागिनः भवन्तु तथा स्वमताधिकारं सुरक्षितं सुनिश्चितं च कुर्वन्तु।
मुख्यमन्त्री विश्वासं प्रकटितवान् यत् नागरिकानां सहयोगेन अयम् अभियानं सफलं भविष्यति तथा राज्यस्य मतदातृसूची अधिका सूक्ष्मा पारदर्शिनी अद्यतना च भविष्यति।-------------
Hindusthan Samachar / Dheeraj Maithani