Enter your Email Address to subscribe to our newsletters

नवदेहली, ३० जूनमासः (हि.स.)। देहल्याः उपराज्यपालः तरणजीतसिंह-सन्धू अद्य इण्डियन-रेड-क्रॉस-सोसाइटी (देहली-शाखा) तथा सेण्ट-जॉन-एम्बुलेन्स-एसोसिएशन-इत्यनयोः कार्यप्रणाल्याः समीक्षार्थम् आयोजितायाः सभायाः अध्यक्षताम् अकरोत्। सः अवदत् यत् एते संस्थे मानव-सेवायाः गौरवशालिनीं परम्परां अग्रे नयतः तथा दशकेभ्यः आवश्यकताम् अनुभवन्तेभ्यः जनेभ्यः आवश्यक-स्वास्थ्य-सेवां, आपत्कालीन-सहायतां राहत-सेवां च प्रदाने महत्त्वपूर्णां भूमिकां निर्वहतः।
उपराज्यपालः सामाजिक-माध्यमे एक्स इति सञ्चार-मञ्चे प्रकाशिते स्वसन्देशे अवदत् यत् अद्य तयोः कार्यप्रणाल्याः भावि-कार्ययोजनायाः समीक्षा कृता। कार्यक्षमतावृद्धये, संस्थागत-सामर्थ्यस्य सुदृढीकरणाय तथा सेवा-प्रदाने सुधाराय व्यापक-परिवर्तनस्य आवश्यकतायाः विषये चर्चा अपि अभवत्। सः अवदत् यत् सेण्ट-जॉन-एम्बुलेन्स-सेवाः अधिक-प्रभावशालिन्यः शीघ्रकार्यक्षमाश्च भवेयुः इति उद्देश्येन उपायानाम् अपि विचारः कृतः, विशेषतः सम्यक्-प्रशिक्षित-कर्मचारिणां उपलब्धतां सुनिश्चेतुं बलं दत्तम्।
उपराज्यपालः अवदत् यत् तासां बहुमूल्यानां मानवतावादी-प्रयत्नानां—प्रधानमन्त्री-टीबी-मुक्त-अभियानम्, प्राथमिक-चिकित्सा-प्रशिक्षण-कार्यक्रमः, शीतकालीन-राहत-कार्याणि तथा दिव्याङ्गजन-सहायता—अधिकं सुदृढी-करणं विस्तारश्च करणीयः। सः अपि अवदत् यत् सोसाइटी-इत्यस्यै कॉर्पोरेट-सामाजिक-उत्तरदायित्व-(सीएसआर)-सहभागितया सह सर्वेषां आवश्यक-संसाधनानां उपलब्ध्यर्थं पूर्ण-सहयोगस्य आश्वासनं प्रदत्तम्।
/ अंशु गुप्ता