Enter your Email Address to subscribe to our newsletters

- भैंसवा मातुः, राजगढ़े जल गंगा संवर्धन अभियानस्यस्य च समापने कार्यक्रमे सम्मिलितो मुख्यमंत्री डॉ. यादवः
भोपालम्, 30 जूनमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादव अवदत् यत् जलात् एव प्रकृतेः उद्भवः जीवनस्य च विकासः अभवत्। प्रथमं पृथिव्यां जलचराः एव समुत्पन्नाः। जलात् एव जीवनम् अस्ति। जलतत्त्वे सर्वाणि तत्त्वानि समाहितानि सन्ति। यदा वयं जलसंरचनाः पश्यामः तदा अस्माकं मनः आनन्देन परिपूर्णं भवति।
मुख्यमन्त्री डाक्टर मोहनयादवः मङ्गलवासरे राजगढजिलायाः भैंसवामाताक्षेत्रे प्रदेशे सञ्चालितस्य जलगङ्गासंवर्धनाभियानस्य तृतीयचरणस्य समापनकार्यक्रमं सम्बोधयन् एतानि वचनानि उक्तवान्। सः अवदत् यत् जलेन स्नानानन्तरं अस्मभ्यं ताजगी अनुभूयते। अस्माकं पूर्वजैः जलस्य महत्त्वम् अवगतं निरन्तरं जलसंरचनानां निर्माणं च कृतम्। अधुना अस्माकं दायित्वं यत् ताः सर्वाः संरक्षेम तथा सम्यक् परिपालयेम।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नेतृत्वे सम्पूर्णे देशे जलसंरक्षणसंवर्धनयोः अभियानं प्रवर्तते। मध्यप्रदेशे अपि गतत्रिवर्षेभ्यः एतदभियानं जनसहयोगेन वृहद्रूपेण सञ्चालितम् अस्ति तथा बहुसंख्यकाः जलसंरचनाः संरक्षिताः पुनरुद्धृताश्च। अद्य अत्र जलगङ्गासंवर्धनाभियानस्य समापनकार्यक्रमः अस्ति, किन्तु मुख्यमन्त्री अवदत् यत् अस्मिन् वर्षे अलनीनो प्रभावात् न्यूनवृष्टेः सम्भावना वर्तते। अतः प्रदेशे अमृतसरोवरनिर्माणम्, वर्षाजलसञ्चयनम्, नदीसंरक्षणम् इत्यादीनि जलस्रोतसंरक्षणकार्याणि निरन्तरं प्रवर्तिष्यन्ते। गतमार्चमासस्य एकोनविंशतितमदिनात् आरभ्य प्रायः शतदिनपर्यन्तं सञ्चालिते जलगङ्गासंवर्धनाभियाने प्रदेशे दशसहस्रपञ्चशतचतुर्दशकोटिरूप्यकव्ययेन त्रिलक्षत्रिषष्टिसहस्राणि कार्याणि सम्पन्नानि। एतेषु कार्येषु जनसमर्थनं जनसहयोगश्च विपुलरूपेण प्राप्तः।
कार्यक्रमे मुख्यमन्त्रिणा द्विशतद्विपञ्चाशत्कोटिपञ्चषष्टिलक्षरूप्यकव्ययेन सम्पन्नानां एकत्रिंशत् विकासकार्याणां भूमिपूजनं लोकार्पणं च कृतम्। तेन भैंसवामाताक्षेत्रस्य विकासार्थं विंशत्कोटिरूप्यकाणां प्रदाने घोषणा अपि कृता।
मुख्यमन्त्री अवदत् यत् अस्माकं सनातनसंस्कृतौ पञ्चतत्त्वानां विशेषतः जलस्य अत्यधिकं महत्त्वम् अस्ति। अस्माकं सर्वाणि पवित्रकार्याणि जलेन सह एव सम्पन्नानि भवन्ति। प्रसिद्धकविः रहीमः अपि जलस्य महत्त्वं प्रतिपादितवान्। जलगङ्गासंवर्धनाभियानस्य अन्तर्गतं राजगढजिलायां अत्युत्तमं कार्यं सम्पन्नम्। अस्य कार्यस्य कृते भारतसर्वकारेण मध्यप्रदेशस्य षट् सर्वश्रेष्ठजिलेषु राजगढजिलस्य अपि चयनः कृतः। अस्य कृते सः सर्वान् सम्बन्धितान् अभिनन्दितवान्।
सः अवदत् यत् कृषकाणां समृद्धेः आधारः सिञ्चनसुविधा अस्ति। गतविंशतिवर्षेषु अस्माकं सर्वकारैः प्रदेशे सिञ्चितक्षेत्रस्य विस्तारः तीव्रगत्या अभवत्। प्रत्येकक्षेत्रपर्यन्तं जलं प्रापयितुं अस्माकं संकल्पः अस्ति तथा वयं तम् पूर्णं कुर्मः। अस्माकं सर्वकारेण कृषकेभ्यः तेषां कृष्युत्पादानां यथोचितमूल्यम् अपि प्रदीयते। अस्माकं सर्वकारेण गोधूमस्य समर्थनमूल्यं द्विसहस्रषट्शतपञ्चविंशतिरूप्यकाणि निर्धारितम्। कृषकेभ्यः किसानसम्माननिधेः लाभः अपि प्रदीयते। प्रदेशस्य सपादकोटिसंख्यकाभ्यः भगिनीभ्यः लाडलीबहनायोजनायाः लाभः प्रदीयते। बालकेभ्यः शिक्षार्थं सर्वाः आवश्यकसुविधाः प्रदीयन्ते। प्रदेशे सांदीपनिविद्यालयाः निर्मीयन्ते, ये उत्कृष्टशिक्षायाः केन्द्राणि सन्ति। एते विद्यालयाः अस्मान् सांदीपनिमुनिं भगवानं श्रीकृष्णं सुदामानं च स्मारयन्ति। भगवानः श्रीकृष्णस्य सुदाम्नः च निष्काममैत्री प्रेम च अद्य अपि सम्पूर्णविश्वेन स्मर्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani