Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ३० जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अद्य मङ्गलवासरे राजगढ-जनपदस्य सारङ्गपुर-विकासखण्डान्तर्गतस्य भैंसवामाता-मन्दिरे आयोजिते कार्यक्रमे सहभागितां करिष्यति। सः राजगढ-जनपदे ३५२ कोटि-रूप्यक-मूल्यानां विकास-परियोजनानां लोकार्पणं भूमिपूजनं च करिष्यति।
जनसम्पर्क-अधिकारी अनुराग-उइके इत्यनेन सूचितं यत् कार्यक्रमे पञ्चायत-ग्रामीण-विकासमन्त्री प्रह्लादसिंह-पटेलः, तकनीकी-शिक्षा-कौशल-विकास-रोजगार-राज्यमन्त्री (स्वतन्त्र-प्रभारः) गौतम-टेटवालः, सांसदः रोडमल-नागरः च उपस्थिताः भविष्यन्ति।
सः अवदत् यत् मुख्यमन्त्री डॉ.मोहन-यादवः अपराह्णे १:४५ वादने भैंसवामाता-मन्दिरम् उपगम्य दर्शन-पूजनं करिष्यति। ततः परं दुग्ध-तडागे गङ्गा-पूजनम्, गो-पूजनम्, पादपारोपण-कार्यक्रमे च सहभागिता करिष्यति। तदनन्तरं जल-गङ्गा-संवर्धन-अभियान-२.० इत्यस्य प्रदर्शिनीम् अवलोक्य जनपदे सञ्चालितानां जल-संरक्षण-पर्यावरणीय-नवाचाराणां विषये सूचनां प्राप्स्यति।
जनसम्पर्क-अधिकारीणः अनुसारेण कार्यक्रमे राजगढ-जनपदस्य पर्यटन-वृत्तचित्रस्य, कॉफी-टेबल-पुस्तकस्य तथा सामाजिक-माध्यम-प्रबन्धन-पुटानां लोकार्पणं भविष्यति। तथा च जनपदे सम्पन्नानां विकास-कार्याणाम् आधारेण निर्मितस्य ग्रन्थस्य विमोचनमपि भविष्यति। मुख्यमन्त्री डॉ. मोहन-यादवः कार्यक्रमं सम्बोधयन् प्रदेश-सर्वकारस्य जनकल्याणकारी-योजनानां, जल-संरक्षणस्य तथा सतत-विकासस्य विषये राज्य-सर्वकारस्य प्रतिबद्धतां प्रकाशयिष्यति। कार्यक्रमे विविध-हितग्राहिभ्यः योजनानामन्तर्गतं हितलाभ-वितरणमपि करिष्यते।
सः अवदत् यत् जलस्रोतसां पुनर्जीवनस्य संरक्षणस्य च उद्देशेन आरब्धस्य 'जल-गङ्गा-संवर्धन-अभियान-२०२६' इत्यस्य गरिमामयं समापनं भविष्यति। अस्य अभियानस्य अल्पावधौ ग्रामीण-नगरीय-वन-सिञ्चन-शिक्षा-औद्योगिक-क्षेत्रेषु च विविधस्तरेषु प्रायः ३.६२ लक्षाधिकानि जल-संरक्षण-संवर्धन-कार्याणि सफलतया सम्पन्नानि। अनेन महाभियानेन सम्पूर्णे प्रदेशे भूजल-संवर्धनम्, जल-गुणवत्ता-परीक्षणम्, वर्षाजल-सङ्ग्रहणम्, नदी-पुनर्जीवनम् तथा जन-जागरूकतायाः नूतना चेतना जागरिता।
जनसम्पर्क-अधिकारीणः अनुसारेण अभियानस्य समापन-कार्यक्रमेषु क्षेत्रीय-सांसदानामपि प्रमुखा सहभागिता भविष्यति। शहडोले हिमाद्री-सिंहः, भिण्डे सन्ध्या-रायः, बालाघाटे भारती-पारधी, रतलामे अनिता-नागरसिंह-चौहानः, बड़वानी-जनपदे गजेन्द्र-पटेलः, सीधी-जनपदे डॉ. राजेश-मिश्रः, मन्दसौरे सुधीर-गुप्तः, श्योपुरे शिवमङ्गलसिंह-तोमरः, छिन्दवाडायां बण्टी-विवेक-साहू, जबलपुरे आशीष-दुबे च मुख्यातिथयः भविष्यन्ति। नीमच-जनपदे राज्यसभासदस्यः बंशीलाल-गुर्जरः मुख्यातिथिरूपेण उपस्थितः भविष्यति।
जनपद-स्तरीय-समारोहस्य मुख्योद्देश्यम् अभियानस्य उपलब्धीनां सार्वजनिक-प्रस्तुतीकरणं तथा जल-संरक्षणं प्रति समाजस्य निरन्तर-प्रतिबद्धतायाः सुदृढीकरणम् अस्ति। कार्यक्रमे जल-संरक्षणे, जल-सुरक्षायां, श्रमदाने च उत्कृष्टं योगदानं दत्तवतीभ्यः ग्राम-पञ्चायतेभ्यः, जनपद-पञ्चायतेभ्यः, शासकीय-विभागेभ्यः, जागरूक-नागरिकेभ्यः, स्वयंसेवी-सङ्गठनेभ्यः, जलदूतेभ्यः, महिला-स्वसहायता-समूहेभ्यः, यूनां समूहेभ्यः, कृषकेभ्यः तथा शैक्षणिक-निजी-संस्थाभ्यश्च विशेष-सम्मानं प्रदास्यते। समारोह-स्थले जल-संरचनानां पूर्व-वर्तमान-स्थितेः, नवाचाराणां, सफलताकथानां च आधारेण प्रदर्शिनी आयोजिता भविष्यति। विशेषा श्रव्य-दृश्य-प्रस्तुतिः (लघुचलचित्रम्) अपि प्रदर्शिता भविष्यति। कार्यक्रमे मुख्यमन्त्रिणः सन्देशस्य वाचनं भविष्यति तथा उपस्थितेभ्यः सर्वेभ्यः जनप्रतिनिधिभ्यः नागरिकेभ्यश्च जल-संवर्धनस्य संरक्षणस्य च सामूहिकः सङ्कल्पः कारयिष्यते।
Hindusthan Samachar / Divya Ranjan