Enter your Email Address to subscribe to our newsletters

भोपालम्, 30 जूनमासः (हि.स.)।संयुक्तराष्ट्रस्य (यूएन) विमेन इण्डिया इत्यस्य देशप्रतिनिधिः शोको इशिकावा मध्यप्रदेशे ‘महिलासशक्तीकरणं सुरक्षा च’ इति दृष्टिं साकारयन्त्या एमपी पर्यटनमण्डलेन प्रवर्त्यमानां ‘महिलानां कृते सुरक्षितपर्यटनस्थलम् (एसटीडीडब्ल्यू) परियोजनाम्’ प्रशंसितवती।
मङ्गलवासरे भोपालनगरे एमपी पर्यटनमण्डले आयोजिते विशेषसत्रे यूएन विमेन इण्डिया इत्यस्य देशप्रतिनिधिः शोको इशिकावा एसटीडीडब्ल्यू परियोजनायाः प्रशिक्षिताभिः बालिकाभिः सह प्रत्यक्षसंवादं कृतवती तथा तासाम् अनुभवान् उपलब्धीश्च अवगतवती। अस्मिन् अवसरे सा प्रशिक्षितानां बालिकानाम् आत्मविश्वासं नेतृत्वक्षमतां कौशलञ्च प्रशंसन्ती अवदत् यत् एषा पहलः महिलानां कृते सुरक्षितसमावेशीपर्यटनस्य वैश्विकदृष्टेः साकारीकरणदिशि महत्त्वपूर्णम् उदाहरणम् अस्ति। सा अपि अवदत् यत् स्थानीयसमुदायानां सक्रियसहभागिता अस्याः परियोजनायाः महान्तमा शक्तिः अस्ति।
महिलापर्यटकानां कृते सर्वाधिकसुरक्षितराज्यनिर्माणस्य संकल्पः
एमपी पर्यटनमण्डलस्य अपरप्रबन्धसञ्चालकः अभय अरविन्द बेडेकर अवदत् यत् अस्माकं लक्ष्यं मध्यप्रदेशं महिलापर्यटकानां कृते देशस्य सर्वाधिकं सुरक्षितं संवेदनशीलं च पर्यटनगन्तव्यं निर्मातुम् अस्ति। प्रदेशे सुरक्षा कौशलविकासः सामुदायिकसहभागिता च एतेषां समन्वितप्रयत्नैः महिलाभ्यः नवानि अवसराणि सृज्यन्ते तथा पर्यटनक्षेत्रम् अधिकं समावेशी भवति।
हस्तनिर्मितोपहारेषु आत्मनिर्भरतायाःदृश्यम्
एसटीडीडब्ल्यू परियोजनाविषये अभवत् संवादे परियोजनया सम्बद्धाः महिलाः बालिकाश्च स्वकौशलस्य परिचयं प्रदर्शयन्त्यः अतिथिभ्यः स्वनिर्मितानि हस्तशिल्पोपहाराणि अर्पितवत्यः। तेषु हस्तनिर्मितस्मृतिचिह्नानि वस्त्राभरणानि फेंगशुई कलाकृतयः च आसन्। एते उत्पादाः न केवलं स्थानीयकलायाः सृजनशीलतायाश्च प्रदर्शनम् अकुर्वन् अपितु एतदपि दर्शितवन्तः यत् एषा परियोजना महिलानाम् आर्थिकात्मनिर्भरतायै प्रभावकरूपेण कार्यं करोति।
गोष्ठ्यां यूएन विमेन प्रतिनिधिमण्डलेन परियोजनायाः अन्तर्गतं विकसितस्य कौशलप्रशिक्षणप्रतिमानस्य सामुदायिकसहभागितायाः महिलानाम् आत्मविश्वासे जातस्य सकारात्मकपरिवर्तनस्य च प्रशंसा कृता तथा एषा परियोजना प्रभावकारिणी प्रेरणादायिनी च पहलः इति अभिहिता। अस्मिन् अवसरे यूएन विमेन इण्डिया इत्यस्य देशोपप्रतिनिधिः कान्ता सिंह तथा राज्यप्रतिनिधिः जोयात्री राय अपि उपस्थिते आस्ताम्।
---------------
Hindusthan Samachar / Dheeraj Maithani