Enter your Email Address to subscribe to our newsletters


उज्जयिनीनगरम्, ३० जूनमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां विक्रम-उद्योगपुरी-नाम्नि औद्योगिक-क्षेत्रे पेप्सिको-इण्डिया-होल्डिङ्ग्स-प्राइवेट-लिमिटेड-निर्माण्याः देशस्य द्वितीयं फ्लेवर-कन्सन्ट्रेट-निर्माण-संयन्त्रं निर्माय सिद्धं जातम्। अस्य संयन्त्रस्य लोकार्पणम् अद्य मङ्गलवासरे भविष्यति। एतेन परियोजनया राज्ये प्रायः ८०० जनानां रोजगारावसराः सृज्यन्ते।
मध्यप्रदेश-औद्योगिक-विकास-निगमस्य निदेशकः राजेश-राठौरः अवदत् यत् प्रायः १२६६ कोटि-रूप्यकाणां निवेशेन द्वाविंशत्यधिक-एकर-परिमिते क्षेत्रे स्थापितम् एतद् अत्याधुनिकं संयन्त्रं पेय-पदार्थानां कृते फ्लेवर-कन्सन्ट्रेट-इत्यस्य निर्माणं करिष्यति। देशे एतादृशस्य फ्लेवर-कन्सन्ट्रेट-निर्माणस्य केवलं द्वे संयन्त्रे स्तः, तयोः एकस्य उज्जयिन्यां स्थापना प्रदेशस्य गौरवस्य विषयः अस्ति।
सः अवदत् यत् आधुनिक-प्रौद्योगिक्या उच्चस्तरीय-स्वचालन-व्यवस्थया च युक्तम् एतत् संयन्त्रं निर्माण्याः प्रमुख-संस्थानां पेप्सी, माउण्टेन-ड्यू, ट्रॉपिकाना, लेज, कुरकुरे, गैटोरेड तथा क्वेकर इत्येतेषां मानकानुरूपं उत्पादनं करिष्यति। अस्य अत्याधुनिक-संयन्त्रस्य सञ्चालनेन ८०० अधिकानां प्रत्यक्ष-रोजगारावसराः सृजिताः सन्ति। एतदतिरिक्तं परिवहन-व्यवस्था, भण्डारणम्, लॉजिस्टिक्स्, पैकेजिङ्ग्, आपूर्ति-श्रृङ्खला तथा सेवा-क्षेत्रेषु अपि व्यापकाः आर्थिक-गतिविधयः प्रवर्धिष्यन्ते, येन बहूनाम् अप्रत्यक्ष-रोजगारावसराणाम् अपि विकासः भविष्यति।
राठौरः अवदत् यत् एमपीआईडीसी-उज्जयिनी-स्थित-क्षेत्रीय-कार्यालयस्य व्यवस्थापनेन मैसर्स पेप्सिको-इण्डिया-होल्डिङ्ग्स-प्राइवेट-लिमिटेड-निर्माण्याः लोकार्पण-कार्यक्रमः अपराह्णे ३:०० वादने आयोज्यते, यस्मिन् मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः मुख्यातिथिरूपेण सहभागितां करिष्यति। विशेषातिथिरूपेण प्रभारी-मन्त्री गौतम-टेटवालः अपि उपस्थितः भविष्यति।
कार्यक्रमे राज्यसभासदस्यः बालयोगी-उमेशनाथ-महाराजः, सांसदः अनिल-फिरोजिया, विधायकाः अनिल-जैन-कालूहेडा, सतीश-मालवीयः, तेजबहादुरसिंह-चौहानः, जितेन्द्रसिंह-पण्ड्या, महापौरः मुकेश-टटवालः, नगर-निगमाध्यक्षः कलावती-यादवः तथा अन्ये गणमान्यजनाः उपस्थिताः भविष्यन्ति।
निर्माण्याः पक्षतः यूजीन-विलेम्सेनः (अन्ताराष्ट्रिय-पेय-पदार्थ-विभागस्य मुख्य-कार्यकारी-अधिकारी), जागृत-कोटेचः (भारत-दक्षिण-एशिया-क्षेत्रस्य मुख्य-कार्यकारी-अधिकारी, पेप्सिको) तथा इवान-नॉर्टनः (महाप्रबन्धकः तथा वरिष्ठ-उपाध्यक्षः, फ्रैन्चाइजी-आपूर्ति-श्रृङ्खला) अपि कार्यक्रमे उपस्थिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan