Enter your Email Address to subscribe to our newsletters

उज्जयिनीनगरम्, ३० जूनमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थितस्य महर्षिपाणिनि-संस्कृतवैदिकविश्वविद्यालयस्य षष्ठः दीक्षान्तसमारोहः अद्य मङ्गलवासरे कालिदाससंस्कृत-अकादम्याम् आयोज्यते। अस्य समारोहस्य अध्यक्षतां राज्यपालः मङ्गुभाईपटेलः करिष्यति। मुख्यातिथितया च मुख्यमन्त्री डा.मोहनयादवः अपि कार्यक्रमे सहभागित्वं करिष्यति इति प्रस्तावितम्।
जनसम्पर्काधिकारी अनिकेतः शर्मा अवदत् यत् दीक्षान्तसमारोहे विशिष्टातिथिरूपेण उच्च-तकनीकीशिक्षामन्त्री इन्द्रसिंहपरमारः, राज्यसभासांसदः बालयोगी-उमेशनाथमहाराजः, सांसदः अनिलफिरोजिया, विधायकः अनिलजैनः (कालूहेड़ा) च उपस्थिताः भविष्यन्ति।
सारस्वतातिथिरूपेण केन्द्रीयसंस्कृत-विश्वविद्यालयस्य, नव-दिल्लीस्थितस्य कुलपतिः प्रो.श्रीनिवासवरखेड़ी सहभागित्वं करिष्यति। सम्मानितातिथिषु महर्षि-वेदव्यासप्रतिष्ठानस्य, पुणेनगर-स्थितस्य संस्थापकः स्वामी-गोविन्ददेव-गिरिमहाराजः, तथा लाल-बहादुरशास्त्रीराष्ट्रीयसंस्कृतविश्वविद्यालयस्य, नवदिल्लीस्थितस्य पूर्वकुलपतिः प्रो.रमेशकुमारपाण्डेयः उपस्थितौ भविष्यतः। समारोहस्य मार्गदर्शकरूपेण महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य कुलगुरुः आचार्यः शिवशङ्करमिश्रः अपि उपस्थितः भविष्यति।
त्रिषष्टिः छात्राः पदकैः सम्मानिताः भविष्यन्ति, द्वे विभूती मानदोपाधिभ्यां च सम्मानयिष्येते
कुलगुरुः आचार्यः शिवशङ्करमिश्रः अवदत् यत् कालिदाससंस्कृत-अकादम्याः पण्डितसूर्यनारायणव्याससङ्कुलसभागारे प्रातः ११ वादनात् आरभ्यमाणे दीक्षान्तसमारोहे विश्वविद्यालयस्य त्रिषष्टिः (६३) छात्राः स्नातक-स्नातकोत्तर-विद्यावारिधि-स्तरेषु पदकैः सम्मानिताः भविष्यन्ति। तदतिरिक्तं भारतीयज्ञान-परम्परायाः, संस्कृतस्य, आध्यात्मिक-क्षेत्रस्य च द्वे प्रतिष्ठिते विभूती विश्वविद्यालयस्य सर्वोच्चया मानद-डी.लिट्. उपाध्या सम्मानयिष्येते। एषा उपाधिः स्वामीगोविन्ददेवगिरिमहाराजाय तथा प्रो.रमेशकुमारपाण्डेयाय प्रदास्यते।
स्वामीगोविन्ददेवगिरिमहाराजः समकालीनसन्तपरम्परायाः प्रमुखाचार्येषु अन्यतमः अस्ति। सः पुणेनगरस्थितस्य महर्षिवेदव्यासप्रतिष्ठानस्य संस्थापकः अस्ति। वेद-उपनिषद्-श्रीमद्भगवद्गीता-रामायण-भारतीयदर्शनानां च प्रख्यात-व्याख्यातारूपेण सः देशे विदेशे च सुप्रसिद्धः अस्ति। भारतीयसंस्कृतेः, वैदिकज्ञानस्य, संस्कृतभाषायाः, गोसंवर्धनस्य, सामाजिकसमरसतायाः तथा सेवाकार्यस्य माध्यमेन सः समाजे व्यापकां आध्यात्मिक-सांस्कृतिकचेतनां प्रसारितवान् अस्ति।
तथैव प्रो.(डा.)रमेशकुमारपाण्डेयः संस्कृतजगतः अन्ताराष्ट्रियख्यातिप्राप्तः विद्वान्, शिक्षाविद् तथा उच्चशिक्षाप्रशासकः अस्ति। सः श्रीलालबहादुरशास्त्री-राष्ट्रीयसंस्कृतविश्वविद्यालयस्य, नव-दिल्लीस्थितस्य पूर्वकुलपतिः आसीत्। भारतीयदर्शनस्य, न्यायदर्शनस्य, मीमांसायाः, संस्कृत-साहित्यस्य, पाण्डु-लिपिविज्ञानस्य तथा भारतीयज्ञान-प्रणाल्याः क्षेत्रेषु तस्य योगदानम् अत्यन्तम् उल्लेखनीयम् अस्ति। तस्य नेतृत्वे संस्कृतशिक्षा तथा अनुसन्धानं राष्ट्रिय-अन्ताराष्ट्रियस्तरे नूतनाम् अभिज्ञातिं प्राप्तम्।
Hindusthan Samachar / Divya Ranjan