Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 30 जूनमासः (हि.स.)।
केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जगतप्रकाश नड्डा मङ्गलवासरे अवदत् यत् स्वस्थभारतात् एव विकसितभारतस्य निर्माणं सम्भवति। देशे अधुना निवारकस्वास्थ्यपरिचर्यायाः अधिकं महत्त्वं दीयते येन जनाः गम्भीररोगेभ्यः पूर्वमेव सुरक्षिताः भवितुं शक्नुवन्ति। स्वस्थभारतः एव विकसितभारतस्य आधारशिला अस्ति तथा अस्यां दिशि शासनं निरन्तरं कार्यं करोति।
मङ्गलवासरे जगतप्रकाश नड्डा लिवर तथा बिलियरी विज्ञानसंस्थानस्य दशमदीक्षान्तसमारोहम् उद्दिश्य सम्बोधनं कुर्वन् आसीत्। अस्मिन् अवसरे नड्डा अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे शासनं चिकित्साशिक्षायाः स्वास्थ्यसेवानां च सुदृढीकरणाय हार्डवेयर सॉफ्टवेयर इत्युभयोः समरूपेण ध्यानं दत्तवती। तेषां मते हार्डवेयर इत्यस्य अभिप्रायः चिकित्सालयानां चिकित्सामहाविद्यालयानां आधुनिकस्वास्थ्यसुविधानां च विस्तारः अस्ति। सॉफ्टवेयर इत्यस्य अर्थः उत्तमनीतयः प्रशिक्षणं तथा चिकित्सकेभ्यः अनुसन्धानकर्तृभ्यश्च प्रगतये अनुकूलं शैक्षणिकपरिवेशः इति।
सः अवदत् यत् गतवर्षेषु देशे चिकित्सामहाविद्यालयानां संख्या त्रिशतसप्ताशीतितः अष्टशताष्टादशपर्यन्तं वर्धिता। तथैव एमबीबीएस अध्ययनस्थानानि प्रायः पञ्चाशत्सहस्रात् वर्धित्वा एकलक्षविंशतिसहस्राधिकानि अभवन्। स्नातकोत्तराध्ययनस्थानानि अपि त्रिंशत्सहस्रात् वर्धित्वा अशीतिसहस्राधिकानि अभवन्। शासनस्य लक्ष्यं आगामिवर्षेषु अन्यानि पञ्चसप्ततिसहस्राणि नूतनचिकित्साशिक्षास्थानानि योजयितुम् अस्ति येन देशे चिकित्सकानां उपलब्धता अधिका भविष्यति।
स्वसम्बोधने मन्त्री अपि अवदत् यत् अद्य भारते त्रयोविंशतिः एम्स संस्थानानि कार्यरतानि सन्ति येषु बहूनि अर्वाचीनवर्षेषु प्रारब्धानि। एषः विस्तारः देशे अतिविशिष्टचिकित्सायाः चिकित्साशिक्षायाश्च नूतनां दिशं प्रददाति।
स्वास्थ्यसेवानां विषये भाषमाणः सः आयुष्मान आरोग्यमन्दिराणां भूमिकां महत्त्वपूर्णाम् अवदत्। देशव्यापी एकलक्षपञ्चाशीतिसहस्राधिकानि एतानि केन्द्राणि कार्यरतानि सन्ति यानि जनेभ्यः प्राथमिकस्वास्थ्यसेवाः प्रददति। अत्र बहूनां जनानां रक्तचापस्य मधुमेहस्य कर्कटरोगस्य च परीक्षणं क्रियते। समये परीक्षणेन अनेकेषां रोगिणां रोगस्य प्रारम्भिकावस्थायामेव निदानं भवति येन चिकित्सा सुलभा भवति।
नड्डा पुनरपि अवदत् यत् देशे निवारकस्वास्थ्यपरिचर्यायाः अधुना अधिकं महत्त्वं दीयते येन जनाः गम्भीररोगेभ्यः पूर्वमेव सुरक्षिताः भवितुं शक्नुवन्ति। स्वस्थभारतः एव विकसितभारतस्य आधारशिला अस्ति तथा अस्यां दिशि शासनं निरन्तरं प्रयत्नशीलम् अस्ति।
लिवर तथा बिलियरी विज्ञानसंस्थानस्य प्रशंसां कुर्वन् सः अवदत् यत् एतत् संस्थानं यकृतरोगाणां चिकित्सायाम् अनुसन्धानकार्येषु तथा फैटी लिवर इत्यादिरोगेषु जनजागरूकतावर्धने महत्त्वपूर्णां भूमिकां निर्वहति। सः अवदत् यत् एतत् संस्थानं न केवलं देशे अपितु अन्तरराष्ट्रीयस्तरे अपि स्वीयां विशिष्टपहचानं निर्मितवान्।
दीक्षान्तसमारोहे स्नातकविद्यार्थिनः सम्बोधयन् नड्डा अवदत् यत् अतिविशिष्टचिकित्साशिक्षा केवलम् एका उपलब्धिः नास्ति अपितु तया सह समाजस्य प्रति महती उत्तरदायित्वभावना अपि सम्बद्धा अस्ति। सः नूतनपदवीधारिभ्यः प्रार्थितवान् यत् ते स्वीये व्यावसायिकजीवने चिकित्सानैतिकतां संवेदनशीलतां सेवाभावं च सर्वदा धारयेयुः।
सः अवदत् यत् चिकित्सकस्य कार्यं केवलं चिकित्सां कर्तुमेव न भवति अपितु रोगिभिः सह मानवीयव्यवहारः अपि तस्य कर्तव्यं भवति। कार्यक्रमस्य अन्ते सः विद्यार्थिभ्यः उज्ज्वलभविष्यस्य शुभकामनाः दत्त्वा देशस्य स्वास्थ्यव्यवस्थायाः सुदृढीकरणे स्वीयं योगदानं दातुम् आह्वानम् अकरोत्।
---------------
Hindusthan Samachar / Dheeraj Maithani