Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 30 जूनमासः (हि.स.)।
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः हूलदिवसस्य अवसरे मङ्गलवासरे जनजातीयगौरवस्य शौर्यस्य स्वाभिमानस्य च प्रतीकान् सर्वान् अमरबलिदानिनः श्रद्धापूर्वकं नत्वा सम्मानितवान्।
प्रधानः सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशिते स्वसन्देशे उक्तवान् यत् हूलदिवसः देशस्य जनजातीयसमाजस्य अदम्यशौर्यस्य आत्मसम्मानस्य स्वतन्त्रतासङ्ग्रामे तेषाम् अमूल्ययोगदानस्य च स्मरणस्य अवसरः अस्ति।
तेन उक्तं यत् सिद्धो कान्हू चांद भैरव तथा फूलो झानो इत्यादीनां महानां वीराणां त्यागः बलिदानं स्वसंस्कृतेः परम्पराणां संरक्षणे तेषां समर्पणं च सर्वदा देशवासिनां कृते प्रेरणास्रोतः भविष्यति। एतेषाम् अमरसेनानीनां योगदानं भारतस्य इतिहासस्य अमूल्यधरोहरः अस्ति यत् सर्वदा सम्मानेन कृतज्ञतया च स्मरिष्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani