रथयात्रायाः अवसरे गोंदिया–पुरी-मध्ये विशेष-रेलयानस्य सञ्चालनम्, रायपुरात् सायं ५:१० वादने सुविधा भविष्यति
रायपुरनगरम्, जूनमासस्य ३० दिनाङ्कः (हि.स.)। रथयात्रायाः अवसरे पुरीं प्रति गच्छतां श्रद्धालूनां वर्धमानं सम्मर्दं दृष्ट्वा दक्षिण-पूर्व-मध्य-रेलवेमण्डलेन गोंदिया–पुरी–गोंदिया-मध्ये विशेष-रेलयानस्य सञ्चालनस्य निर्णयः कृतः। ०८८०१/०८८०२ सङ्ख्याकं रथयात
रथयात्रा  स्पेशल ट्रेन फाइल फाेटाे


रेलवे द्वारा जारी ट्रेनों की सूची और समय सारणी


रायपुरनगरम्, जूनमासस्य ३० दिनाङ्कः (हि.स.)। रथयात्रायाः अवसरे पुरीं प्रति गच्छतां श्रद्धालूनां वर्धमानं सम्मर्दं दृष्ट्वा दक्षिण-पूर्व-मध्य-रेलवेमण्डलेन गोंदिया–पुरी–गोंदिया-मध्ये विशेष-रेलयानस्य सञ्चालनस्य निर्णयः कृतः। ०८८०१/०८८०२ सङ्ख्याकं रथयात्रा-विशेष-रेलयानम् उभयदिशि चतुर्भिः-चतुर्भिः आवृत्तिभिः सञ्चालितं भविष्यति। अनेन छत्तीसगढप्रदेशस्य मध्यभारतस्य च यात्रिणां महती सुविधा भविष्यति।

दक्षिण-पूर्व-मध्य-रेलमण्डलस्य सूचनानुसारं ०८८०१ सङ्ख्याकं गोंदिया–पुरी-रथयात्रा-विशेष-रेलयानम् २०२६ तमवर्षस्य जुलाई-मासस्य २, ९, १६ तथा २९ दिनाङ्केषु सञ्चालितं भविष्यति। एतत् रेलयानं गोंदियानगरात् मध्याह्ने १:३० वादने प्रस्थाय दुर्गस्थानकं ३:५८ वादने, रायपुरस्थानकं च सायं ५:१० वादने प्राप्स्यति। अनन्तरदिने प्रातः १०:०० वादने पुरीं प्राप्स्यति।

तथैव ०८८०२ सङ्ख्याकं पुरी–गोंदिया-रथयात्रा-विशेष-रेलयानम् २०२६ तमवर्षस्य जुलाई-मासस्य ३, १०, १७ तथा ३० दिनाङ्केषु पुरीतः मध्याह्ने १:०० वादने प्रस्थास्यति। एतत् रेलयानम् अनन्तरदिने प्रातः ३:१० वादने रायपुरं, ४:२८ वादने दुर्गस्थानकं प्राप्य प्रातः ७:०० वादने गोंदियां प्राप्स्यति।

एतत् विशेष-रेलयानम् उभयदिशि डोंगरगढ-राजनांदगांव-दुर्ग-रायपुर-महासमुन्द-खरियार-रोड-कांटाबांजी-टिटलागढ-बलांगीर-बरगढ़-रोड-सम्बलपुर-अङ्गुल-तालचेर-रोड-ढेंकानाल-कटक-भुवनेश्वर-खुर्दा-रोड-इत्यादिषु प्रमुख-रेलस्थानकेषु निर्धारित-समयानुसारं स्थास्यति।

रेलवे-मण्डलेन उक्तं यत् यात्रिकाणां सुविधार्थम् अस्मिन् विशेष-रेलयाने विंशतिः (२०) आईसीएफ-यानकोष्ठाः योजिताः भविष्यन्ति। तेषु दश शयनयान-कोष्ठाः, त्रयः तृतीय-श्रेणी-वातानुकूलित-कोष्ठाः, द्वौ द्वितीय-श्रेणी-वातानुकूलित-कोष्ठौ, तथा द्वौ दिव्याङ्गानुकूलौ रक्षक-कोष्ठ-सहितौ यानकोष्ठौ भविष्यतः।

दक्षिण-पूर्व-मध्य-रेलवेमण्डलेन यात्रिकेभ्यः आह्वानं कृतम् यत् रथयात्रायाः अवसरे सम्भाव्यमानम् अतिरिक्त-सम्मर्दं दृष्ट्वा ते समयपूर्वमेव अधिकृतमाध्यमैः आरक्षणं कृत्वैव यात्रां कुर्वन्तु।

Hindusthan Samachar / Divya Ranjan