Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 जूनमासः (हि.स.)।
दिल्लीनगरे मतदातृसूच्याः विशेषगहनपुनरीक्षणस्य प्रक्रिया मङ्गलवासरात् आरब्धा। अस्य अन्तर्गतं मतदानकेन्द्रस्तरीयाधिकारिणः दिल्लीनगरे गृहे गृहे गत्वा जनानां गणनापत्राणि वितरन्ति। एषा प्रक्रिया एकोनत्रिंशत् जुलैदिनाङ्कपर्यन्तं प्रवर्तिष्यते। रेखा गुप्ता स्वस्य स्वपरिवारस्य च गणनापत्रं पूरयित्वा समर्पितवती।
मुख्यमन्त्रिणी सामाजिकमाध्यममञ्चे एक्स इति माध्यमे प्रकाशिते सन्देशे दिल्लीनगरस्य सर्वान् पात्रान् मतदातॄन् लोकतन्त्रस्य सुदृढीकरणाय महत्त्वपूर्णे अस्मिन् अभियाने स्वसक्रियभागीदारीं सुनिश्चितुं प्रार्थितवती। तया उक्तं यत् सर्वे पात्राः मतदातारः स्वगणनापत्रं समये पूरयित्वा स्वस्वमतदानकेन्द्रस्तरीयाधिकारिणे अवश्यं समर्पयन्तु। मुख्यमन्त्रिणी उक्तवती यत् सम्यक् अद्यतनमतदातृसूची एव सुदृढलोकतन्त्रस्य आधारशिला अस्ति। स्वमताधिकारस्य विषये जागरूकनागरिकस्य दायित्वं निर्वहन्तु लोकतन्त्रस्य अस्मिन् महायज्ञे स्वभागीदारीं सुनिश्चितयन्तु।
उल्लेखनीयम् अस्ति यत् मङ्गलवासरात् मतदानकेन्द्रस्तरीयाधिकारिणः दिल्लीनगरे गृहे गृहे गत्वा सर्वेभ्यः पात्रेभ्यः मतदातृभ्यः गणनापत्रवितरणस्य प्रक्रिया आरब्धवन्तः। एषा प्रक्रिया एकोनत्रिंशत् जुलैदिनाङ्कपर्यन्तं प्रवर्तिष्यते। ततः पञ्चम अगस्तदिनाङ्के प्रारूपमतदातृसूच्याः प्रकाशनं भविष्यति। अनन्तरं पञ्चम अगस्तदिनाङ्कात् चतुर्थसितम्बरदिनाङ्कपर्यन्तं मतदातृभ्यः सूच्याः सम्बन्धे दावान् आपत्तीः च अभिलेखयितुं समयः प्रदास्यते। पञ्चम अगस्तदिनाङ्कात् तृतीयअक्टूबरदिनाङ्कपर्यन्तं प्राप्तानां दावानाम् आपत्तीनां च निस्तारणं भविष्यति। ततः अनन्तरं सप्तमअक्टूबरदिनाङ्के अन्तिममतदातृसूच्याः प्रकाशनं भविष्यति।
------------
Hindusthan Samachar / Dheeraj Maithani