राममन्दिरस्य दान-धन-चौर्यप्रकरणे कठोरकार्यवाही भविष्यति, दोषिणः न अवशिष्टा: भविष्यन्ति - ओमप्रकाश-राजभरः
जौनपुरम्, ३० जूनमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुर-जनपदे मङ्गलवासरे सुहेलदेव-भारतीय-समाज-पक्षस्य राष्ट्रियाध्यक्षः उत्तरप्रदेश-सर्वकारस्य मन्त्री च ओमप्रकाश-राजभरः पत्रकारैः सह वार्तालापं कुर्वन् राममन्दिरस्य दान-धन-चौर्यप्रकरणस्य विषये अवदत् यत्
ओम प्रकाश राजभर


जौनपुरम्, ३० जूनमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुर-जनपदे मङ्गलवासरे सुहेलदेव-भारतीय-समाज-पक्षस्य राष्ट्रियाध्यक्षः उत्तरप्रदेश-सर्वकारस्य मन्त्री च ओमप्रकाश-राजभरः पत्रकारैः सह वार्तालापं कुर्वन् राममन्दिरस्य दान-धन-चौर्यप्रकरणस्य विषये अवदत् यत् सर्वकारः अस्मिन् प्रकरणे पूर्णगम्भीरतया कार्यवाहीं करोति। सः स्पष्टतया उक्तवान् यत् अन्वेषणस्य आधारेण यः कश्चन दोषी इति सिद्ध्यति, तस्य विरुद्धं कठोरा वैधानिकी कार्यवाही भविष्यति तथा कश्चन प्रभावशाली व्यक्तिरपि न अवशिष्ट: भविष्यति।

टिन्नू-यादवस्य गृहे बुलडोजर-कार्यवाह्याः विषये पृष्टे सति राजभरः अवदत् यत् एतस्य निर्णयं प्रशासनम् अन्वेषण-अभिकरणानि च करिष्यन्ति। सः अवदत् यत् अधिनियमः स्वकार्यं करिष्यति तथा सर्वा: कार्यवाह्य: पूर्णतया वैधानिक-प्रक्रियायाः अधीने भविष्यन्ति।

समाजवादी-पक्षस्य राष्ट्रियाध्यक्षम् अखिलेश-यादवं लक्ष्यीकृत्य राजभरः अवदत् यत् गतद्विवर्षेभ्यः तस्य विरुद्धं निरन्तरं वक्तव्यप्रदानं कारितम्। सः अवदत् यत् अधुना यदा सः प्रत्युत्तरं ददाति तदा विपक्षः आपत्तिं करोति। राजभरः उक्तवान् यत् अखिलेश-यादवः अस्मिन् जन्मनि पुनः उत्तरप्रदेशस्य मुख्यमन्त्री न भविष्यति।

अग्रिम-विधानसभा-निर्वाचनस्य सज्जताविषये सुभासपा-अध्यक्षः अवदत् यत् तस्य पक्षः प्रदेशस्य सर्वेषु विधानसभा-आसनेषु सङ्गठनं सुदृढं कर्तुं निर्वाचनं च प्रतिस्पर्धितुं सज्जतां करोति। सः आरोपम् अकरोत् यत् समाजवादी-पक्षः तस्य विधायकान् भेदयितुं प्रयतते। विधायकानां क्रय-विक्रयस्य विषये पृष्टे सति सः अवदत् यत् यदि कश्चन जनप्रतिनिधिः विक्रयाय सज्जः भवेत् तर्हि तं क्रेतुं प्रयत्नः अपि भविष्यति। अतः जनप्रतिनिधिभिः स्वसिद्धान्तेषु दृढतया स्थातव्यम्।

राजभरः पुनरुक्तवान् यत् तस्य पक्षः गठबन्धनेन सह मिलित्वा अग्रिम-निर्वाचने दृढतया प्रतिस्पर्धां करिष्यति तथा जनतायाः मध्ये सर्वकारस्य उपलब्धयः विकासकार्याणि च प्रस्तोष्यति।

हिन्दुस्थान समाचार / Divya Ranjan