अरुणाचलप्रदेशस्य बाढाग्रस्तक्षेत्राणां भ्रमणं करिष्यति शिवराजसिंहचौहानः
नवदेहली, ३० जूनमासः (हि.स.)। केन्द्रीय-कृषि-कृषक-कल्याण-ग्रामीण-विकासमन्त्री शिवराजसिंहचौहानः द्विदिवसीयं पूर्वोत्तर-भारत-भ्रमणं करिष्यति। सः ३० जूनमासस्य दिनाङ्के नवदेहल्याः प्रस्थाय तस्मिन्नेव दिने असमस्य राजधानीं गुवाहाटीनगरम् उपगम्य उच्चस्तरीय-
पत्रकार वार्ता को संबोधित करते हुए केन्द्रीय मंत्री शिवराज सिंह चौहान


नवदेहली, ३० जूनमासः (हि.स.)। केन्द्रीय-कृषि-कृषक-कल्याण-ग्रामीण-विकासमन्त्री शिवराजसिंहचौहानः द्विदिवसीयं पूर्वोत्तर-भारत-भ्रमणं करिष्यति। सः ३० जूनमासस्य दिनाङ्के नवदेहल्याः प्रस्थाय तस्मिन्नेव दिने असमस्य राजधानीं गुवाहाटीनगरम् उपगम्य उच्चस्तरीय-समीक्षासभां करिष्यति। ततः १ जुलाईमासस्य दिनाङ्के अरुणाचलप्रदेशस्य जलग्रस्त-क्षेत्राणां भ्रमणं कृत्वा तत्रत्यां परिस्थितिं प्रत्यक्षरूपेण निरीक्षिष्यति।

कृषि-मन्त्रालयेन मङ्गलवासरे उक्तं यत् प्रधानमन्त्री-नरेन्द्रमोदिनः मार्गदर्शनेन केन्द्रसर्वकारः जलप्रभावित-क्षेत्राणां स्थितिम् स्वयं निरीक्षमाणः अस्ति तथा च राहत-पुनर्वास-कार्याणि त्वरितगत्या प्रवर्तयितुं क्षेत्रस्तरे निर्णयान् कर्तुम् इच्छति। एतस्याः श्रृङ्खलायाः अन्तर्गतं प्रधानमन्त्री नरेन्द्रमोदी असम-अरुणाचलप्रदेशयोः अतिजलस्थितिं गम्भीरतया स्वीकृत्य केन्द्रीयमन्त्री शिवराजसिंहचौहानं त्वरित-क्षेत्रीय-समीक्षार्थं प्रेषयितुं निर्णयम् अकरोत्।

निर्धारित-कार्यक्रमानुसारं चौहानः ३० जूनमासस्य दिनाङ्के नवदेहल्याः प्रस्थित्य तस्मिन्नेव दिने गुवाहाटीनगरम् आगमिष्यति। तत्र सः राज्यसर्वकारस्य वरिष्ठाधिकारिभिः सह उच्चस्तरीय-सभां करिष्यति। अस्यां सभायाम् असमराज्ये समीपवर्तिक्षेत्रेषु च अतिजलेन सस्यानां, ग्रामाणां, आधारभूत-संरचनानां च जातस्य प्रभावस्य, प्रवर्तमान-राहत-कार्याणां प्रगतिः, भावि-आवश्यकताश्च विस्तरेण चर्चिष्यन्ते।

असमस्य समीक्षायाः अनन्तरं १ जुलाईमासस्य दिनाङ्के शिवराजसिंह-चौहानः अरुणाचलप्रदेशस्य बाढाग्रस्त-क्षेत्राणां भ्रमणं करिष्यति। तत्र सः वायुमार्गेण भूमिमार्गेण च सर्वेक्षणं कृत्वा बाढया प्रभावितानां ग्रामाणां, कृषिक्षेत्राणां, शिथिलता-शिविराणां च स्थितिं समीपतः निरीक्षिष्यति। केन्द्रीयमन्त्री बाढाप्रभावितैः कृषकैः, स्थानीय-निवासिभिः, महिला-समूहैः, युवभिः च प्रत्यक्षं संवादं करिष्यति, येन अद्यावधि प्रदत्ता सहायता कियत् प्रभावकारिणी अभवत् तथा च त्वरितरूपेण कस्य प्रकारस्य अतिरिक्त-सहायतायाः आवश्यकता वर्तते इति ज्ञातुं शक्येत। तस्मिन्नेव दिने सः अरुणाचलप्रदेश-सर्वकारस्य मन्त्रिभिः, वरिष्ठाधिकारिभिः, अन्यैः जनप्रतिनिधिभिः च सह सभा: अपि करिष्यति। तासु सस्यहानिमूल्याङ्कनम्, कृषकेभ्यः क्षतिपूरण-प्रदानम्, सस्य-बीमा-धनराशेः वितरणम्, बाढया क्षतिग्रस्तानां मार्गाणां, सेतूनां, तटबन्धानां च पुनर्निर्माणम्, तथा ग्रामीण-आधारभूत-संरचनायाः पुनर्स्थापनायाः रणनीतिः इत्यादयः विषयाः चर्चिष्यन्ते।

Hindusthan Samachar / Divya Ranjan