डॉ. श्यामाप्रसादमुखर्जी-इत्यस्य सम्पूर्णं जीवनं राष्ट्रस्य एकतायै अखण्डतायै च समर्पितम् आसीत् - देवेन्द्रसिंहः
मुरादाबादनगरम्, ३० जूनमासः (हि.स.)। डॉ.श्यामाप्रसादमुखर्जी-जयंती-संस्मरण-पक्षस्य अन्तर्गतं भारतीय-जनता-पक्षस्य मुरादाबाद-महानगर-विभागद्वारा कार्यकर्तृ-सम्मेलनस्य आयोजनम् अभवत्। अस्मिन् सम्मेलने मुख्यातिथिरूपेण उपस्थितः भारतीय-जनता-पक्षस्य किसान-मोर
भाजपा मुरादाबाद महानगर के कार्यकर्ता सम्मेलन में बोलते भाजपा किसान मोर्चा के प्रदेश अध्यक्ष


मुरादाबादनगरम्, ३० जूनमासः (हि.स.)। डॉ.श्यामाप्रसादमुखर्जी-जयंती-संस्मरण-पक्षस्य अन्तर्गतं भारतीय-जनता-पक्षस्य मुरादाबाद-महानगर-विभागद्वारा कार्यकर्तृ-सम्मेलनस्य आयोजनम् अभवत्। अस्मिन् सम्मेलने मुख्यातिथिरूपेण उपस्थितः भारतीय-जनता-पक्षस्य किसान-मोर्चा-प्रदेशाध्यक्षः देवेन्द्रसिंहः अवदत् यत् डॉ.श्यामाप्रसाद-मुखर्जी-इत्यस्य सम्पूर्णं जीवनं राष्ट्रस्य एकतायै, अखण्डतायै, सांस्कृतिक-राष्ट्रवादाय च समर्पितम् आसीत्। सः कार्यकर्तॄन् आहूतवान् यत् ते डॉ.मुखर्जी-इत्यस्य आदर्शान् सङ्गठनस्य विचारधारां च जनं जनं प्रति प्रसारयितुं पूर्ण-समर्पणेन कार्यं कुर्वन्तु।

देवेन्द्रसिंहः पुनरपि अवदत् यत् भारतीय-जनता-पक्षस्य महद्बलं तस्य समर्पितः कार्यकर्ता एव अस्ति, यस्य अथक-परिश्रमेण सेवा-भावेन च सङ्गठनं निरन्तरं नूतन-उच्चतां प्राप्नोति।

कार्यक्रमस्य अध्यक्षतां कुर्वन् भारतीय-जनता-पक्षस्य महानगराध्यक्षः गिरीश-भण्डूला अवदत् यत् कार्यकर्तारः एव सङ्गठनस्य वास्तविकं पूञ्जीभूतं धनम् सन्ति। सः सर्वान् कार्यकर्तॄन् अग्रिम-सङ्घटनात्मक-कार्यक्रमान् जनकल्याणकारी-अभियानानि च पूर्ण-ऊर्जया समर्पणेन च सफलानि कर्तुम् आहूतवान्। कार्यक्रमस्य सञ्चालनं महानगर-महामन्त्री विशाल-त्यागी अकरोत्।

अस्मिन् अवसरे विधान-परिषदः सदस्यः डॉ.जयपालसिंह-व्यस्तः, महानगर-सङ्घटन-प्रभारी मोहनलाल-सैनी, महानगर-महामन्त्रिणौ शमी-भटनागरः तथा अमित-शर्मा, पूर्व-सांसदः वीरसिंहः, पार्षद-दलस्य उपनेता सुरेन्द्र-विश्नोई, दीक्षान्त-चौधरी, दीपक-चौधरी, भरत-टण्डनः, निमित-जायसवालः, राजीव-गुप्तः, जिला-पञ्चायत-सदस्यः छोटू-बाबा, किसान-मोर्चाया: क्षेत्रीय-महामन्त्री दिनेश-ठाकुरः, पूर्व-महानगराध्यक्षः धर्मेन्द्रनाथ-मिश्रः, प्रदीप-सक्सेना, सुनीता-शर्मा, वनिता-महरोत्रा, सिमरन-कौर, सोमपाल-प्रजापतिः, ललित-चौधरी, द्रोपा-देवी, ज्योति-बंसल, विद्यासरण-बिट्टू, प्रीति-कश्यप, नीरज-कुमारः, पूर्णिमा-खन्ना, हेमा-खत्री, अजय-वर्मा, लता-चन्द्रा, आदित्य-चौधरी, अमित-गुर्जरः, पङ्कज-यादवः, चन्द्र-प्रजापतिः, शाहनवाजः, हेमराज-सैनी, अशोक-सैनी, विक्की-अग्रवालः, सुधांशु-अग्रवालः, पुनीत-रस्तोगी, दिनेश-सिसोदिया, श्यामबिहारी-शर्मा, महावीरसिंहः, दीपक-धवनः इत्यादयः बहुसंख्यकाः पक्ष-पदाधिकारी, मण्डलाध्यक्षाः, मण्डल-प्रभारिणः, पार्षदाः कार्यकर्तारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan