Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 30 जूनमासः (हि.स.)।
उत्तराखण्डराज्यस्य शासनं जनसमस्यानां त्वरितसमाधानार्थं चतुर्थजुलैदिनाङ्कात् जनजनस्य सरकार जनजनस्य द्वार इति अभियानस्य द्वितीयचरणम् आरभिष्यति। पुष्कर सिंह धामिनो निर्देशानुसारं पञ्चदशदिनपर्यन्तं प्रवर्तमानस्य अस्य विशेषाभियानस्य अन्तर्गतं जिलास्तरे खण्डस्तरे तहसीलस्तरे च विशेषशिविराणि आयोजयिष्यन्ते।
मुख्यमन्त्री पुष्करसिंहधामी उक्तवान् यत् सामान्यनागरिकाः स्वसमस्यानां समाधानार्थं शासकीयकार्यालयानां पुनः पुनः परिभ्रमणं मा कुर्वन्तु। एतमेव उद्देश्यम् अनुसृत्य अधिकारिणः स्वयमेव जनसमूहमध्ये गत्वा शिकायतानां निस्तारणं करिष्यन्ति। तेन उक्तं यत् स्वकार्यकालस्य पञ्चवर्षपूर्त्यवसरे चतुर्थजुलैदिनाङ्कात् आरभ्यमाणस्य पञ्चदशदिवसीयसेवापक्षस्य अन्तर्गतं अस्य अभियानस्य सञ्चालनं भविष्यति।
आधिकारिकसूचनानुसारं शिविरेषु विभिन्नविभागानाम् अधिकारिणः कर्मचारीणः च उपस्थिताः भविष्यन्ति तथा च जनानां शिकायतानां स्थल एव निस्तारणं करिष्यन्ति। सहैव पात्रलाभार्थिभ्यः विभिन्नशासकीययोजनानां लाभः अपि प्रदास्यते।
उल्लेखनीयम् अस्ति यत् गतवर्षस्य दिसम्बरमासे पञ्चचत्वारिंशद्दिनपर्यन्तं सञ्चालितस्य जनजनस्य सरकार जनजनस्य द्वार इति अभियानस्य समये सम्पूर्णप्रदेशे षट्शतानि एकाशीति विशेषशिविराणि आयोजितानि आसन्। तेषु पञ्चलक्षाधिकाः त्रयस्त्रिंशत्सहस्राधिकाः नागरिकाः सहभागित्वं कृतवन्तः। अस्मिन् अवधौ प्रायः त्रयस्त्रिंशत्सहस्रं जनपरिवादानां त्वरितसमाधानं कृतम्। राज्यशासनस्य अनुसारम् एषा प्रयत्नः सुशासनस्य प्रभाविकार्यपद्धतिरूपेण अपि प्रशंसिता आसीत्।
मुख्यमन्त्रिणा सर्वेषां जनपदानां सक्षमाधिकारिणः कर्मचारीणः च शिविरेषु अनिवार्यरूपेण उपस्थितिं सुनिश्चित्य जनसमस्यानां त्वरितसमाधानं कर्तुं निर्देशाः प्रदत्ताः।
Hindusthan Samachar / Dheeraj Maithani