कुम्भः युवभ्य: संस्कारान् राष्ट्राय च सार्थकां दिशां प्रदास्यति - रविन्द्र-पुरी
हरिद्वारः, ३० जूनमासः (हि.स.)। कुम्भस्य दिव्यं भव्यं च आयोजनं राष्ट्राय सार्थकां दिशां प्रदातुं युवभ्य: संस्कारान् प्रदातुं च समर्थं भविष्यति। इति अखिल-भारतीय-अखाडा-परिषदः पुनर्निर्वाचिताध्यक्षः महन्तः रविन्द्र-पुरी कनखल-स्थिते मानव-कल्याण-आश्रमे श
श्री महंत रविंद्रपुरी का स्वागत करते हुए


हरिद्वारः, ३० जूनमासः (हि.स.)। कुम्भस्य दिव्यं भव्यं च आयोजनं राष्ट्राय सार्थकां दिशां प्रदातुं युवभ्य: संस्कारान् प्रदातुं च समर्थं भविष्यति। इति अखिल-भारतीय-अखाडा-परिषदः पुनर्निर्वाचिताध्यक्षः महन्तः रविन्द्र-पुरी कनखल-स्थिते मानव-कल्याण-आश्रमे श्री-ललिताम्बा-देवी-न्यासस्य संयोजने आयोजिते स्वागत-समारोहे अवदत्।

श्रीमहन्तः रविन्द्र-पुरी-महाराजः अवदत् यत् केन्द्र-सर्वकारः प्रदेश-सर्वकारश्च सन्तानां मार्गदर्शनेन सहयोगेन च दिव्यस्य भव्यस्य च कुम्भस्य आयोजनाय प्रयतमानौ स्तः। कुम्भ-मेलापके समग्रदेशात् विश्वस्य च कोटिशः श्रद्धालवः आस्थावन्तः सनातनधर्मानुयायिनः च तीर्थनगरीम् आगमिष्यन्ति।

तेन उक्तं यत् अखाडानां सम्मत्या परामर्शेन च एव अखाडा-परिषदः नूतना कार्यकारिणी गठिता। नवगठिता कार्यकारिणी कुम्भ-मेलापकस्य आयोजने सहयोगस्य समन्वयस्य च कार्यं सम्यग्रूपेण करिष्यति।

श्री-ललिताम्बा-देवी-न्यासस्य महामन्त्री अनिरुद्ध-भाटी अवदत् यत् श्रीमहन्तः रविन्द्र-पुरी-महाराजः सनातन-संस्कृतेः अखाडा-परम्परायाश्च संवाहकः अस्ति। तस्य कुशल-कर्मठ-नेतृत्वे कुम्भस्य आयोजनं भव्यरूपेण ऐतिहासिकरीत्या च सम्पन्नं भविष्यति।

अस्मिन् अवसरे श्री-ललिताम्बा-देवी-न्यासस्य न्यासी श्रीमहन्तः देवानन्द-सरस्वती, न्यासस्य अध्यक्षः विनोद-अग्रवालः, उपाध्यक्षः बहादुरसिंह-वर्मा, कोषाध्यक्षा रेणुका-बेन एल. ठक्कर:, न्यासी गोविन्द-सारडा, स्वामी दुर्गेशानन्द-सरस्वती तथा अरुण-लड्ढा इत्येते श्रीमहत: रविन्द्र-पुरी-महाराज्ञ: अङ्गवस्त्रेण माल्यार्पणेन च भव्यं स्वागतं कृतवन्तः।

Hindusthan Samachar / Divya Ranjan