उत्तराखण्डे चलचित्र-नीतेः अन्तर्गतं त्रिभ्यः युवभ्यः छात्रवृत्तिः प्रदत्ता, चलचित्र-जगति भविष्य-विकासाय प्रोत्साहनम्
देहरादूननगरम्, ३० जूनमासः (हि.स.)। उत्तराखण्ड-सर्वकारस्य चलचित्र-नीतेः–२०२४ अन्तर्गतं राज्यस्य यूनां प्रत्यक्षलाभः आरब्धः। उत्तराखण्ड-चलचित्र-विकास-परिषदा अध्ययनं सम्पन्नवन्तः त्रयः युवान: छात्रवृत्त्या सम्मानिताः, तेषां छात्रवृत्ति-राशेः वितरणं च
मुख्यमंत्री धामी सचिवालय में बैठक लेते हुए।


देहरादूननगरम्, ३० जूनमासः (हि.स.)। उत्तराखण्ड-सर्वकारस्य चलचित्र-नीतेः–२०२४ अन्तर्गतं राज्यस्य यूनां प्रत्यक्षलाभः आरब्धः। उत्तराखण्ड-चलचित्र-विकास-परिषदा अध्ययनं सम्पन्नवन्तः त्रयः युवान: छात्रवृत्त्या सम्मानिताः, तेषां छात्रवृत्ति-राशेः वितरणं च कृतम्।

मुख्यमन्त्री पुष्करसिंह-धामी उक्तवान् यत् उत्तराखण्डस्य युवान: सृजनात्मक-प्रतिभया समृद्धाः सन्ति, राज्य-सर्वकारश्च तेषां सामर्थ्यस्य विकासाय राष्ट्रिय-स्तरे परिचयं प्राप्तुं च उत्तमान् अवसरान् प्रदातुं प्रतिबद्धः अस्ति। तेन उक्तं यत् चलच्चित्र-नीतेः–२०२४ माध्यमेन चलच्चित्र-शिक्षां प्राप्तवद्भ्यः युवभ्यः छात्रवृत्तिं प्रदाय तेषां स्वप्नानां साकारतायै नूतनं प्रोत्साहनं दीयते।

परिषदः मुख्य-कार्यकारी-अधिकारी बंशीधर-तिवारी मङ्गलवासरे अवदत् यत् चलचित्र-नीतेः–२०२४ अन्तर्गतं एफटीआईआई, पुणे, सत्यजित्-रे-चलचित्र-दूरदर्शन-संस्थाने, कोलकाता-नगरे तथा अन्येषु प्रतिष्ठितेषु संस्थानेषु प्रवेशं लब्धवन्तः उत्तराखण्डस्य स्थायि-निवासिनः छात्राः छात्राश्च पाठ्यक्रमं सम्पन्न्य प्रमाणपत्रं प्राप्य गुणवत्ताक्रमस्य आधारेण छात्रवृत्तिं प्राप्नुवन्ति।

नीतेः अन्तर्गतं अनुसूचित-जाति:, अनुसूचित-जनजाति: तथा अन्य-पश्चाद्वर्गीय-विद्यार्थिभ्यः पाठ्यक्रम-व्ययस्य ७५ प्रतिशतं, सामान्य-वर्गीय-विद्यार्थिभ्यश्च ५० प्रतिशतपर्यन्तं छात्रवृत्तिः प्रदीयते।

सः अवदत् यत् रुद्रप्रयाग-जनपदस्य उखीमठ-निवासी प्रवीण-सेमवालाय एकवर्षीय-स्नातकोत्तर-प्रमाणपत्र-पाठ्यक्रमाय ६५,६८२ रूप्यकाणि, चमोली-जनपदस्य हरणी (मुन्दोली)-निवासिन्यै कवितायै द्विवर्षीय-स्नातकोत्तर-डिप्लोमा-पाठ्यक्रमाय १,२७,६१९ रूप्यकाणि, नैनीताल-जनपदस्य तल्लीताल-निवासिने देवेशभट्टाय त्रिवर्षीय-स्नातकोत्तर-डिप्लोमा-पाठ्यक्रमाय १,३८,९९० रूप्यकाणि छात्रवृत्तिरूपेण प्रदत्तानि। एते त्रयः अपि एफटीआईआई, पुणेनगरात् स्वाध्ययनं सम्पन्नवन्तः।

Hindusthan Samachar / Divya Ranjan