Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, ३० जूनमासः (हि.स.)। राज्यपालः लेफ्टिनेण्ट-जनरल गुरमीतसिंहः मिजोरम्- तथा पुदुचेरी-राज्ययोः पूर्व-राज्यपालस्य लेफ्टिनेण्ट-जनरल एम.एम. लखेडा-महोदयस्य निधनस्य अनन्तरम् अद्य देहरादूनस्थितं तस्य निवासं गत्वा पुष्पचक्रं समर्प्य श्रद्धाञ्जलिम् अर्पितवान्। सैनिक-कल्याणमन्त्री गणेश-जोशी अपि तस्मै श्रद्धाञ्जलिं समर्प्य शोकसंवेदनां व्यक्तवान्।
राज्यपालः शोकसन्तप्तान् परिवारजनान् मिलित्वा स्वसंवेदनाः व्यक्तवान्। सः अवदत् यत् लेफ्टिनेण्ट-जनरल-लखेडा-महोदयस्य राष्ट्रसेवायां, सैन्य-नेतृत्वे, सार्वजनिक-जीवने च योगदानं सदैव प्रेरणास्रोतः भविष्यति।
सैनिक-कल्याणमन्त्री गणेश-जोशी अपि लखेडा-महोदयस्य निधनं प्रति शोकं व्यक्तवान्। सः अवदत् यत् लेफ्टिनेण्ट-जनरल-लखेडा-महोदयस्य निधनं राष्ट्रस्य, भारतीय-सेनायाः तथा उत्तराखण्डस्य कृते अपूरणीया क्षतिः अस्ति। तेन दीर्घे सैन्य-जीवने उत्कृष्टं नेतृत्वं, कर्तव्यनिष्ठां राष्ट्रसेवां च अनुकरणीयतया प्रदर्शितम्।
मन्त्री गणेश-जोशी पुनरपि अवदत् यत् उत्तराखण्डेन सह समग्रः देशः तस्य योगदानं सदैव श्रद्धया सम्मानेन च स्मरिष्यति।
Hindusthan Samachar / Divya Ranjan