Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ३० जूनमासः (हि.स.)। मध्यप्रदेशस्य खाद्य-नागरिक-आपूर्ति-उपभोक्ता-संरक्षणमन्त्री गोविन्द-सिंह-राजपूतः मङ्गलवासरे सुरखी-विधानसभा-क्षेत्रस्य गुरैया-ग्रामे आयोजिते जल-गङ्गा-संवर्धन-अभियानस्य समापन-कार्यक्रमे सहभागिताम् अकरोत्।
मन्त्री राजपूतः स्वीयोद्बोधने अवदत् यत् जल-गङ्गा-संवर्धन-अभियानं केवलं शासकीय-कार्यक्रमः न, अपितु जनभागीदाऱ्या सम्बद्धम् एकं व्यापकं जनान्दोलनम् अस्ति। सागर-जनपदे तडागानां, कूपानां, वापीनां तथा अन्येषां जलस्रोतसां संरक्षणम्, स्वच्छता, गभीरीकरणम्, वर्षाजल-सञ्चयनम्, वृक्षारोपणम्, जनजागरणं च इत्यादीनि कार्याणि बृहद्-प्रमाणेन कृतानि, येषां सकारात्मकाः परिणामाः सम्प्रति दृश्यन्ते।
अस्मिन्नवसरे तेन उक्तं यत् अभियाने निर्धारितानां ३४,७०३ लक्ष्याणां विरुद्धं ९०,६८५ गतिविधीनां सफल-क्रियान्वयनेन २६१ प्रतिशताधिकम् उपलब्धिः प्राप्ता, या सम्पूर्णस्य जनपदस्य गौरवस्य विषयः अस्ति। एतस्य कृते तेन समाहर्त्रे, जिल्ला-पञ्चायतस्य मुख्य-कार्यपालन-अधिकारिणे, नगर-परिषदः तथा नगरीय-निकायानाम् अधिकारिभ्यः, विभिन्न-विभागानां कर्मचारिभ्यः, जनप्रतिनिधिभ्यः, स्वयंसेवी-संस्थाभ्यः, युवभ्यः तथा सामान्य-नागरिकेभ्यः हार्दिकाः बधायः शुभकामनाश्च प्रदत्ताः। तेन उक्तं यत् सर्वेषां सामूहिक-प्रयत्नैः एतदभियानं जनान्दोलनस्य स्वरूपम् अलभत।
मन्त्री राजपूतः अवदत् यत् जल-संरक्षणस्य कार्यम् एकस्मिन् दिने अथवा एकस्मिन् अभियाने एव सीमितं न भवेत्। प्रत्येकेन नागरिकेण स्वगृहे, स्वक्षेत्रे, स्वग्रामे, स्वनगरे च जलस्य प्रत्येक-बिन्दोः सम्मानः करणीयः, वर्षाजल-सञ्चयनं स्वीकरणीयम्, जलस्य विवेकपूर्णः उपयोगः करणीयः, जलस्रोतांसि च स्वच्छानि रक्षणीयानि। उपस्थितान् नागरिकान् सम्बोध्य तेन आह्वानं कृतं यत् “जलम् अस्ति चेत् श्वः अस्ति” इति सङ्कल्पं स्वजीवनस्य अङ्गं कुर्वन्तु तथा जल-संरक्षणं निरन्तरं जनान्दोलनरूपेण अग्रे नयन्तु, येन अग्रिम-वंशानां कृते पर्याप्ताः जलसम्पदः सुरक्षिताः भवितुम् अर्हन्ति।
पर्यावरण-संरक्षणस्य सन्देशं दत्त्वा खाद्यमन्त्री राजपूतः अवदत् यत् केवलं वृक्षारोपणं पर्याप्तं नास्ति, अपितु रोपितानां पादपानां संरक्षणं जीवन्त-स्थितौ पालनं च अपि आवश्यकम्। तेन प्रधानमन्त्री नरेन्द्र-मोदिनः आह्वानानुसारं प्रत्येकं जनं स्वमातुः नाम्ना एकः पादपः अनिवार्यतया रोपयितुम् आह्वानं कृतवान्। कार्यक्रमस्य अवसरे तेन मुख्यमन्त्रिणः डॉ. मोहन-यादवस्य सन्देशस्य वाचनम् अपि कृतम्।
अस्मिन्नवसरे खाद्य-नागरिक-आपूर्ति-उपभोक्ता-संरक्षणमन्त्री गोविन्द-सिंह-राजपूतः क्षेत्रस्य विकासार्थं अनेकाः महत्त्वपूर्णाः घोषणाः अकरोत्। तासु निटर्री-आगरा-मार्गस्य निर्माणार्थं ४ कोटि-रूप्यकाणां व्ययेन मार्ग-निर्माणस्य स्वीकृतिः, शासकीय-उच्च-माध्यमिक-विद्यालयाय २० लक्ष-रूप्यकाणां वित्त-स्वीकृतिः, विद्यालय-भवनस्य मरम्मतार्थं ५ लक्ष-रूप्यकाणां स्वीकृतिः, ग्रामे विवाहादि-माङ्गलिक-कार्यक्रमाणां कृते २५ लक्ष-रूप्यक-व्ययेन मङ्गल-भवन-निर्माणस्य घोषणा च प्रमुखाः आसन्।
Hindusthan Samachar / Divya Ranjan