लोकतान्त्रिक-संस्थाः दुर्बलीकरोति काङ्ग्रेस-सर्वकारः, २०२७ तमे वर्षे जनता उत्तरं दास्यति - डॉ. राजीव-बिन्दलः
शिमलानगरम्, ३० जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य प्रदेशाध्यक्षः डॉ. राजीव-बिन्दलः सङ्गठनात्मक-महासू-जनपदस्य प्रशिक्षण-महाभियानस्य उद्घाटन-सत्रम् सम्बोधयन् प्रदेशस्य काङ्ग्रेस-सर्वकारम् लोकतान्त्रिक-संस्थानां दुर्बलीकरणस्य, जनादेशस्य अनादरस्य, वि
प्रदेश भाजपा अध्यक्ष डॉ राजीव बिंदल।


शिमलानगरम्, ३० जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य प्रदेशाध्यक्षः डॉ. राजीव-बिन्दलः सङ्गठनात्मक-महासू-जनपदस्य प्रशिक्षण-महाभियानस्य उद्घाटन-सत्रम् सम्बोधयन् प्रदेशस्य काङ्ग्रेस-सर्वकारम् लोकतान्त्रिक-संस्थानां दुर्बलीकरणस्य, जनादेशस्य अनादरस्य, विकास-कार्याणां बाधायाश्च गम्भीरान् आरोपान् अकरोत्। सः अवदत् यत् मुख्यमन्त्रिणः सुखविन्द्रसिंह-सुक्खू-नेतृत्वयुक्तः सर्वकारः लोकतान्त्रिक-मूल्यानाम् अवहेलनां कृत्वा पञ्चायत-नगर-निकाय-निर्वाचनयोः स्थगनाय सर्वप्रकारेण प्रयत्नम् अकरोत्, किन्तु सर्वोच्च-न्यायालयस्य हस्तक्षेपात् अनन्तरं निर्वाचनानि कारयितुं विवशः अभवत्।

सः अवदत् यत् निर्वाचन-परिणामानां घोषणायाः अनन्तरम् अर्धमासाधिकः कालः व्यतीतः अस्ति, तथापि जनपद-परिषदासु, खण्ड-समितिषु, नगर-परिषदासु, नगर-पञ्चायतेषु, नगर-निगमेषु च अध्यक्ष-उपाध्यक्ष-मेयर-उपमेयर-पदानां निर्वाचनानि अद्यापि लम्बितानि सन्ति। तस्य आरोपः आसीत् यत् सत्ताया: दुरुपयोगेन, नियमानां पुनः पुनः परिवर्तनैः, कथित-अश्व-व्यापारेण च भाजपा-समर्थित-जनप्रतिनिधिषु प्रभावः निर्मीयते, येन जनादेशः परिवर्तयितुं प्रयत्नः क्रियते।

प्रदेश-सर्वकारस्य कार्यप्रणालीम् आलोचयन् डॉ. बिन्दलः अवदत् यत् प्रदेशे मार्गाः दुर्दशां गताः सन्ति, कृषकाः उद्यानपालकाश्च आर्थिक-सङ्कटेन पीडिताः सन्ति। तेन दावा कृतः यत् एचपीएमसी संस्थायाः उपरि उद्यानपालकानां प्रायः १५० कोटि-रूप्यकाणां भुगतानं लम्बितम् अस्ति तथा च एण्टि-हेल-नेट् इत्यादीनि उद्यानपालनसम्बद्धानि बहूनि अनुदानानि समाप्तानि न्यूनीकृतानि वा सन्ति।

सः अवदत् यत् काङ्ग्रेस-पक्षेण युवभ्यः एकलक्षं सर्वकारीय-नियोजनानि पञ्चलक्षं रोजगार-अवसरांश्च प्रदास्यामः इति प्रतिज्ञा कृता आसीत्, किन्तु बेरोजगारी निरन्तरं वर्धते। महिलाभ्यः प्रतिमासं १५०० रूप्यक-प्रदानस्य प्रत्याभूतिरपि न पूर्णा कृता।

डॉ. बिन्दलः अवदत् यत् भारतीय-जनता-पक्षः राष्ट्रवादस्य विकासस्य च विचारधारायाः आधारेण कार्यं करोति। सः पूर्वप्रधानमन्त्रिणः अटलबिहारी-वाजपेयिनः तथा प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सम्पन्नानां विकास-कार्याणां उल्लेखं कृत्वा अवदत् यत् केन्द्रसर्वकारेण हिमाचलप्रदेशाय फोरलेन-मार्गाः, सुरङ्गाः, आधुनिक-आधारभूत-संरचनाः च इत्यादयः अनेके उपहाराः प्रदत्ताः। सः कार्यकर्तॄन् केन्द्रसर्वकारस्य उपलब्धयः भाजपा-नीतयश्च जनं जनं प्रति प्रसारयितुम् आह्वानम् अकरोत् तथा च विश्वासं व्यक्तवान् यत् २०२७ तमे वर्षे प्रदेशस्य जनता काङ्ग्रेस-सर्वकाराय लोकतान्त्रिक-रीत्या समुचितम् उत्तरं दास्यति।

Hindusthan Samachar / Divya Ranjan