एकतया सर्वलक्ष्यसिद्धिः सम्भवति, सामूहिकः सङ्कल्पः एव सफलतायाः आधारः - प्रधानमन्त्री मोदी
नवदेहली, ३० जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् यदा अस्माकं सङ्कल्पाः, विचाराः, मनसः भावनाश्च एकरूपाः भवन्ति, तदा सर्वं कार्यं सफलं भवति। सः देशवासिनः एकतया अग्रे गन्तुं भारतवर्षस्य प्रत्येकं लक्ष्यं च सामूहिकरूपेण साधयितुम् आह्वा
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदेहली, ३० जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् यदा अस्माकं सङ्कल्पाः, विचाराः, मनसः भावनाश्च एकरूपाः भवन्ति, तदा सर्वं कार्यं सफलं भवति। सः देशवासिनः एकतया अग्रे गन्तुं भारतवर्षस्य प्रत्येकं लक्ष्यं च सामूहिकरूपेण साधयितुम् आह्वानम् अकरोत्।

प्रधानमन्त्री मोदी मङ्गलवासरे एक्स माध्यमे संस्कृत-सुभाषितम् अलिखत्—

समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि॥

अस्य सुभाषितस्य अर्थः अस्ति यत् यदा समाजस्य जनानां सङ्कल्पाः, विचाराः, मनसः भावनाश्च समानाः भवन्ति, तदा सामूहिक-प्रयत्नैः प्रत्येकं कार्यस्य सफलता सुनिश्चिता भवति। एकता एव राष्ट्रस्य महती शक्तिः अस्ति, तथा च अनया एव भावनया अग्रे गत्वा विकासलक्ष्याणि राष्ट्रियलक्ष्याणि च साधयितुं शक्यन्ते।

Hindusthan Samachar / Divya Ranjan