Enter your Email Address to subscribe to our newsletters


पश्चिम-बर्धमान-जनपदः, ०४ जूनमासः (हि.स.)। पश्चिमबङ्ग-सर्वकारस्य मन्त्रिणी तथा भाजपा-विधायिका अग्निमित्रा-पाल: गुरुवासरे आसनसोल-जनपद-चिकित्सालये रोगी-कल्याण-समित्याः पदाधिकारिभिः सह समीक्षा-सभाम् आयोजितवती। स्वास्थ्य-सेवानां समीक्षानन्तरं तया चिकित्सालय-प्रशासनाय, चिकित्सकेभ्यः कर्मचरिभ्यश्च कठोरः सन्देशः प्रदत्तः। सा स्पष्टतया उक्तवती यत् सर्वकारीय-चिकित्सालयेषु प्रमादः, अनुशासनहीनता तथा रोगिभिः सह दुर्व्यवहारः कदापि न सहिष्यते।
मन्त्रिणी जनसामान्यान् प्रति आह्वानं कृत्वा उक्तवती यत् यदि कस्यचित् रोगिणः तस्य परिजनानां वा चिकित्सालये कापि असुविधा भवति, चिकित्सकेन, परिचारिकया अथवा कर्मचरिणा दुर्व्यवहारः क्रियते, अथवा स्वास्थ्य-सेवासु काचिदनियमितता दृश्यते, तर्हि तस्य विषये नामसहितां सूचनां ददतु। एतदर्थं सामाजिक-माध्यम-संख्या अपि प्रकाशिता भविष्यति, यत्र जनाः स्वीयाः सूचना: निवेदयितुं शक्नुवन्ति। सा उक्तवती यत् दोषिणां विरुद्धं कठोर-कार्यवाही करिष्यते।
सभायां चिकित्सालयेषु जैवमितीय-उपस्थिति-प्रणाल्याः (बायोमेट्रिक-प्रणाल्याः) कार्यान्वयनस्य विषये अपि चर्चा अभवत्। अग्निमित्रा-पाल उक्तवती यत् केवलं जैवमितीय-प्रणाल्याः स्थापनया समस्या न समाधास्यते, अपितु कर्मचरिभिः चिकित्सकैश्च निर्धारित-कालपर्यन्तं कार्यस्थले उपस्थाय उत्तरदायित्वं निर्वर्तनीयम्। सर्वे उत्तरदायिनः भवन्तु तथा कार्य-संस्कृतौ सुधारः आननीयः इति तया उक्तम्।
सा चिकित्सालय-परिसरस्य स्वच्छतां प्रति गम्भीरां चिन्तां प्रकटितवती। अनेकस्थलेषु मलिनता, कूर्परम् तथा प्रयुक्त-पट्टिकाः (बैण्डेज्) विकीर्णाः दृष्टाः। स्नानगृहाणां स्थितिरपि अत्यन्तं दयनीया आसीत्। तया अधिकारिणः निर्देशिताः यत् चिकित्सालयस्य सर्वे भागाः स्वच्छाः स्थापनीयाः, नियमित-स्वच्छता कार्या तथा भवनानां वर्णलेपनम् अपि करणीयम्।
मन्त्रिणी उक्तवती यत् चिकित्सालये चिकित्सकानां स्वास्थ्यकर्मिणां च न्यूनता गम्भीरा समस्या अस्ति। अस्मिन् विषये सा स्वास्थ्य-विभागस्य वरिष्ठ-अधिकारिभिः सचिवेन च सह चर्चां करिष्यति। जनपद-चिकित्सालये अनेकानि महत्त्वपूर्णानि पदानि रिक्तानि सन्ति, येषां पूरणम् आवश्यकम् अस्ति।
चिकित्सालय-परिसरे आवार-पशूनां उपस्थितिं तथा टोटो-यान-चालकानां अव्यवस्थां प्रति अपि तया असन्तोषः व्यक्तीकृतः। रोगिभिः तेषां परिजनैश्च सह अभद्र-व्यवहारस्य सूचना: प्राप्ताः इति सा अवदत्। चिकित्सालये सुरक्षा-व्यवस्था सुदृढा करिष्यते तथा आवार-पशूनां प्रवेश-निवारणाय आवश्यकानि पदानि स्वीकरिष्यन्ते।
अग्निमित्रा-पाल: चिकित्सालये रैम्प-व्यवस्थायाः न्यूनताम् अपि गम्भीर-विषयत्वेन निरूपितवती। सा उक्तवती यत् आपत्कालीन-परिस्थितौ अथवा अग्निकाण्डे रोगिणः चक्रासनेन (व्हीलचेयर) बहिः नेतव्याः चेत् वर्तमान-व्यवस्था अपर्याप्ता सिद्ध्येत। अतः आधारभूत-संरचनायाः सुदृढीकरणम् आवश्यकम्।
सा कतिपयान् चिकित्सकान् प्रति अपि लक्ष्यं कृत्वा उक्तवती यत् कतिपये चिकित्सकाः सप्ताहे केवलम् एक-द्विवारं चिकित्सालयम् आगच्छन्ति, अवशिष्ट-समये निजी-चिकित्सालयं सञ्चालयन्ति इति सूचना: प्राप्ताः। यदि कश्चित् चिकित्सकः नॉन-प्रैक्टिसिङ्ग-अलाउन्स (एनपीए) प्राप्नोति, तर्हि तेन सर्वकारीय-चिकित्सालये पूर्णनिष्ठया सेवा प्रदेया। सर्वकारीय-सेवायां स्थित्वा निजी-व्यवसायस्य प्राधान्यं न ग्राह्यम् इति सा स्पष्टतया उक्तवती।
चिकित्सालय-परिसरे स्थितानां औषध-विक्रय-केन्द्राणाम् विषये अपि मन्त्रिण्या कठोरः दृष्टिकोणः प्रदर्शितः। यासां दुकानानां अनुबन्धः समाप्तः, ताः शीघ्रमेव परिसरं रिक्तीकुर्वन्तु इति निर्देशः दत्तः। द्विदिनाभ्यन्तरे स्थानं न रिक्तीकृतं चेत् आवश्यक-कार्यवाही क्रियताम् इति पुलिस-विभागः अपि निर्देशितः।
सभायां ट्रॉमा-केन्द्रस्य पुनः सक्रियीकरणस्य विषये अपि चर्चा अभवत्। मन्त्रिणी अवदत् यत् अस्मिन् विषये जनपद-अधिकारिणा सह वार्ता जाता। पूर्वं ट्रॉमा-केन्द्रस्य अनेकानि उपकरणानि अन्यत्र स्थानान्तरितानि आसन्। अधुना वैकल्पिक-स्थले ट्रॉमा-केन्द्रस्य स्थापनायाः सम्भावनाः विचाराधीनाः सन्ति।
सा अद्यतन-काले एकस्य छात्रस्य मृत्योः तथा चिकित्सालये वातानुकूलन-व्यवस्थायाः दोषस्य अपि उल्लेखं कृतवती। सप्त-दश-दिनपर्यन्तं वातानुकूलन-यन्त्रस्य विकारः कार्य-संस्कृतेः दुर्बलतां दर्शयति इति तया उक्तम्। सम्बन्धित-अभिकरणैः अधिकारिभिश्च समयबद्धतया समस्याः समाधेयाः।
अन्ते अग्निमित्रा-पाल उक्तवती यत् सर्वकारीय-चिकित्सालयाः जनानां कर-धनेन सञ्चालयन्ते तथा अत्र कार्यरतानां सर्वेषां कर्मचरिणां वेतनम् अपि जनधनेन एव प्रदीयते। अतः सर्वैः स्वकर्तव्यं ज्ञात्वा प्रामाणिकतया संवेदनशीलतया च कार्यं करणीयम्।
अस्मिन् अवसरे आसनसोल-उत्तर-विधानसभाक्षेत्रस्य विधायकः कृष्णेन्दु-मुखर्जी, आसनसोल-जनपद-चिकित्सालयस्य अधीक्षकः डॉ. निखिलचन्द-दासः तथा अन्ये सहायक-चिकित्सकाः सहायक-अधीक्षकाः च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan