बेलदा-नगरस्य नूतन-महकमा-रूपेण गठनस्य तथा नारायणगढ़-विकासखण्डस्य विभाजनस्य प्रस्तावः
पश्चिम-मेदिनीपुरम्, ०४ जूनमासः (हि.स.)। पश्चिम-मेदिनीपुर-जनपदे बेलदा-नगरं नूतन-महकमा-रूपेण स्थापयितुं तथा नारायणगढ़-विकासखण्डं द्विधा विभक्तुं दीर्घकालात् प्रचलिता या याचना आसीत्, सा इदानीं पूर्णतां प्रति अग्रसरतीव दृश्यते। एतस्मिन् विषये बुधवासरे
नारायणगढ़ के विधायक रमाप्रसाद गिरि तथा अन्य प्रशासनिक अधिकारी


पश्चिम-मेदिनीपुरम्, ०४ जूनमासः (हि.स.)। पश्चिम-मेदिनीपुर-जनपदे बेलदा-नगरं नूतन-महकमा-रूपेण स्थापयितुं तथा नारायणगढ़-विकासखण्डं द्विधा विभक्तुं दीर्घकालात् प्रचलिता या याचना आसीत्, सा इदानीं पूर्णतां प्रति अग्रसरतीव दृश्यते। एतस्मिन् विषये बुधवासरे जनपद-प्रशासनेन महत्त्वपूर्ण: प्रयत्न: कृत:।

जनपदाधिकारिणा बिजिन-कृष्ण-महाभागेन बेलदा-बीडीओ-कार्यालयस्य समीपवर्तिक्षेत्रस्य निरीक्षणं कृतम्। अस्मिन् अवसरे खड़गपुर-महकमा-शासकः ज्योति-घोष-महाभागः, नारायणगढ़-विधानसभा-क्षेत्रस्य विधायकः रमाप्रसाद-गिरि-महाभागः तथा अन्ये प्रशासनिक-अधिकारिणः अपि उपस्थिताः आसन्। निरीक्षणानन्तरं बीडीओ-कार्यालये उच्चस्तरीया सभा आयोजिताभवत्।

बुधवासरस्य सायंकाले सभानन्तरं जनपदाधिकारिणा उक्तं यत् बेलदा-नगरस्य नूतन-महकमा-रूपेण गठनस्य तथा नारायणगढ़-विकासखण्डस्य पुनर्गठनस्य प्रस्तावः राज्यसर्वकाराय प्रेष्यते। राज्यसर्वकारस्य अनुमोदनं प्राप्ते सति अग्रिमा प्रक्रिया आरभ्यते।

प्रस्तावानुसारं नारायणगढ़, दांतन-एक, दांतन-द्वितीय, केशियाड़ी तथा मोहनपुर-विकासखण्डान् संयोज्य नूतनः बेलदा-महकमः निर्मास्यते, यस्य मुख्यालयः बेलदा-नगरे भविष्यति।

एतदतिरिक्तं केलेघाई-नद्याः आधारं स्वीकृत्य नारायणगढ़-विकासखण्डस्य द्विधा विभाजनस्य प्रस्तावः अपि अस्ति। नद्याः एकस्मिन् पार्श्वे स्थितः प्रदेशः नारायणगढ़-विकासखण्डरूपेण यथावत् स्थाप्यते, अपरस्मिन् पार्श्वे स्थितस्य क्षेत्रस्य नाम स्वतन्त्रता-संग्राम-सेनानिनः तथा क्रान्तिकारिणः हेमचन्द्र-कानूंगो-महाभागस्य सम्मानार्थं “हेमचन्द्र-विकासखण्डः” इति स्थापयितुं प्रस्तावः प्रेष्यते।

बुधवासरस्य रात्रौ विधायकः रमाप्रसाद-गिरि-महाभागः अवदत् यत् पूर्ववर्तिभिः सर्वकारैः अस्याः याचनाया: विषये केवलम् आश्वासनमेव दत्तम्, किन्तु किमपि दृढ-पदम् न गृहीतम्। तेन उक्तं यत् क्रान्तिकारिणः हेमचन्द्र-कानूंगो-महाभागस्य स्मृतेः सम्मानार्थं नूतन-विकासखण्डस्य नाम तस्य नाम्ना स्थापयितुं प्रस्तावः कृतः।

Hindusthan Samachar / Divya Ranjan