रायपुरम् : कृषकाणाम् आयं वर्धयितुं छत्तीसगे बासमतीधान्यस्य मिशनगतसज्जा
-कृषि मंत्रिणो राम विचार नेतामस्य अध्यक्षतायाम् इंडियन राईस एक्सपोर्ट फेडरेशनसंस्थायाः पदाधिकारिभिः सह उपवेशनं, पायलटपरियोजनाविषये संजाता सहमतिः रायपुरम् 04 जूनमासः (हि.स.)। छत्तीसगढराज्ये कृषकाणाम् आयवृद्धये कृषिक्षेत्रे विविधीकरणस्य प्रोत्सा
कृषि मंत्री राम विचार नेताम इंडियन राईस एक्सपोर्ट फेडरेशन के पदाधिकारियों के साथ बैठक करते


-कृषि मंत्रिणो राम विचार नेतामस्य अध्यक्षतायाम् इंडियन राईस एक्सपोर्ट फेडरेशनसंस्थायाः पदाधिकारिभिः सह उपवेशनं, पायलटपरियोजनाविषये संजाता सहमतिः

रायपुरम् 04 जूनमासः (हि.स.)।

छत्तीसगढराज्ये कृषकाणाम् आयवृद्धये कृषिक्षेत्रे विविधीकरणस्य प्रोत्साहनाय च बासमतीधानस्य कृषेः विस्तारविषये राज्यशासनेन पहलः आरब्धा अस्ति। कृषिविकासमन्त्रिणो रामविचारनेतामस्य अध्यक्षतायाम् अद्य गुरुवासरे अटलनगर नवारायपुरस्थिते तस्य निवासकार्यालये अस्मिन् विषये उच्चस्तरीयोपवेशनम् आयोजितम्।तत्र कृषिउत्पादनायुक्तः सिद्धार्थकोमलसिंहपरदेशी, कृषिसञ्चालकः राहुलदेवः, अनुसन्धानसञ्चालकः डा. संजयत्रिपाठी, बीजनिगमस्य प्रतिनिधयः, इन्दिरागान्धीकृषिविश्वविद्यालयस्य वैज्ञानिकाः तथा इण्डियनराइसएक्सपोर्टर्सफेडरेशनस्य पदाधिकारीणः उपस्थिताः आसन्।

उपवेशने कृषिमन्त्री नेतामेन उक्तं यत् राज्यशासनं कृषकाणाम् आयं द्विगुणीकर्तुं लक्ष्यीकृत्य बासमतीधानस्य कृषिं प्रोत्साहयिष्यति। तेन अधिकारिभ्यः अस्यां दिशि गम्भीरतया तत्परतया च कार्यं कर्तुं निर्देशाः प्रदत्ताः। श्रीनेतामेन उक्तं यत् कृषकहितं सर्वोपरि वर्तते तथा तेषाम् आयवृद्धये यानि आवश्यकानि पदानि भविष्यन्ति तानि शासनं प्राथमिकतया कार्यान्वितं करिष्यति। सामान्यधानकृषेः फसलविविधीकरणस्य तथा राज्ये बासमतीधानस्य क्षेत्रविस्तारस्य सम्भावनासु विस्तृता चर्चा अभवत्।

उपवेशने कृषिउत्पादनायुक्तः परदेशी अवदत् यत् छत्तीसगढराज्ये प्रायोगिकपरियोजनारूपेण बासमतीधानस्य कृषेः प्रोत्साहने सहमतिः अभवत्। तेन उक्तं यत् राज्ये धानस्य विविधाः प्रजातयः व्यापकतया उत्पाद्यन्ते, किन्तु बासमती तथा अन्येषां सुगन्धिततण्डुलानाम् अन्ताराष्ट्रिययूरोपीयविपणिषु विशेषमागणी वर्तते तथा तेषां श्रेष्ठमूल्यं प्राप्यते। तेन उक्तं यत् प्रदेशस्य तादृशक्षेत्राणां परिचयः करिष्यते यत्र जलवायुः तापमानं च बासमतीधानोत्पादनाय अनुकूलम् अस्ति। चयनितेषु क्षेत्रेषु बासमतीधानस्य क्षेत्रफलं वर्धयित्वा कृषकेभ्यः अधिकलाभप्रदानस्य योजना निर्मास्यते।

उपवेशने इण्डियनराइसएक्सपोर्टर्सफेडरेशनस्य पदाधिकारिणः राज्ये बासमतीधानस्य उत्पादनस्य क्षेत्रविस्तारस्य च कृते सर्वथा सहयोगस्य आश्वासनं दत्तवन्तः। फेडरेशनेन कृषकाणां कृते क्रयप्रतिपूर्ति व्यवस्था, विपणनसहयोगः तथा अन्ताराष्ट्रियविपणिषु सुगन्धिततण्डुलस्य निर्यातवृद्धेः प्रतिबद्धता व्यक्तीकृता।

उपवेशने अस्मिन् विषये अपि सहमतिः अभिव्यक्ता यत् उत्पादनात् आरभ्य विपणनं निर्यातं च यावत् एकः समन्वितः व्यवस्थातन्त्रः विकसितः भविष्यति, येन कृषकाः स्वोपजस्य श्रेष्ठमूल्यं प्राप्नुयुः तथा छत्तीसगढराज्यं सुगन्धिततण्डुलोत्पादनक्षेत्रे नूतनां परिचितिं प्राप्तुं शक्नुयात्।

---------------

Hindusthan Samachar / Dheeraj Maithani