Enter your Email Address to subscribe to our newsletters

नवदेहली, ०४ जूनमासः (हि.स.)। कांग्रेस-दलस्य नेता लोकसभायां विपक्ष-नेता राहुल-गान्धी मध्यप्रदेशस्य नीट-छात्रायाः आकाङ्क्षा-चतुर्वेदी इत्यस्याः आत्महत्यां भ्रष्ट-दुष्ट-विफल-व्यवस्थायाः परिणामः इति उक्तवान्। सः अवदत् यत् गतवर्षेषु शिक्षा-व्यवस्थायाः गम्भीरा क्षति: जाता, यस्य मूल्यं देशस्य युवान: वहन्ति।
राहुल-गान्धी गुरुवासरे सामाजिक-माध्यमे ‘एक्स’-माध्यमे उक्तवान् यत् आकाङ्क्षा चिकित्सकः भूत्वा देशस्य समाजस्य च सेवां कर्तुम् इच्छति स्म। तस्याः पिता कृषकः अस्ति, यः पुत्र्याः अध्ययनाय कृषक-ऋण-कार्ड-आधारे त्रि-लक्ष-रूप्यकाणि ऋणं गृहीत्वा नागपुरे पाकशालायां कार्यम् अकरोत्, यथा सा चिकित्सा-प्रवेश-परीक्षायाः सज्जतां कर्तुं शक्नुयात्। परिवारः स्वपक्षतः सर्वान् सम्भव-प्रयत्नान् अकरोत्, किन्तु नीट-परीक्षायाः प्रश्नपत्र-लीक-सम्बद्धायाः अनिश्चिततायाः मध्ये आकाङ्क्षा आत्महत्यां कृतवती।
सः केन्द्रीय-शिक्षामन्त्रिणं धर्मेन्द्रप्रधानं प्रति अपि प्रश्नान् उत्थापितवान्, उक्तवान् च यत् अस्मिन् प्रकरणे अद्यापि केवलं समितयः तथा निरीक्षण-घोषणाः एव कृताः, किन्तु न व्यवस्थायां सुधारः जातः, न च दोषिणः न्यायालये उपस्थिताः कृताः।
उल्लेखनीयम् अस्ति यत् मध्यप्रदेशस्य मऊगञ्ज-जनपदस्य १८-वर्षीया आकाङ्क्षा-चतुर्वेदी नागपुर-नगरे स्थित्वा नीट-प्रवेश-परीक्षायाः अभ्यासं कुर्वती आसीत्। २० मे-मासे सा आत्महत्यां कृतवती। कतिपय-दिनानन्तरं परिवारः तस्याः हस्तलिखितं पत्रं प्राप्तवान्, यस्मिन् सा स्वमातापितरौ प्रति क्षमां याचितवती।
पत्रे सा लिखितवती यत् तस्याः मातापितरौ तस्मात् चिकित्सकः भवितुं अपेक्षां कुरूतः, किन्तु अधुना तस्याः पुनः नीट-परीक्षां दातुं साहसं न अवशिष्टम्। सा एतदपि लिखितवती यत् प्रथम-प्रयासे उत्तमाङ्कानां आशा आसीत्, किन्तु परिस्थितीनां कारणेन तस्याः आत्मविश्वासः भग्नः जातः तथा भविष्य-विषये विश्वासः नष्टः अभवत्। पत्रस्य अन्ते सा स्वमातापितरौ प्रति क्षमां याचित्वा स्वं तेषां अपेक्षायाः पूरणे असमर्थां स्वीकरोति स्म।
Hindusthan Samachar / Divya Ranjan