पर्यावरणसंरक्षणाय जन जागरूकता वर्धनीया : राज्यपालो डेका
रायपुरम्, 04 जूनमासः (हि. स.)। राज्यपालः रमेनडेकाऽद्य गुरुवासरे लोकभवने रायपुरवनवृत्तस्य सम्भागीयवनाधिकारी मयङ्कपाण्डेयेन सह सौजन्यभेटां कृतवान्। अस्मिन् अवसरे राज्यपालेन जूनमासस्य पञ्चमदिने आयोज्यमानस्य विश्वपर्यावरणदिवसस्य कृते वनविभागेन क्रिय
राज्यपाल रमेन डेका से रायपुर वन वृत्त के संभागीय वन अधिकारी मयंक पाण्डेय की सौजन्य भेंट


रायपुरम्, 04 जूनमासः (हि. स.)।

राज्यपालः रमेनडेकाऽद्य गुरुवासरे लोकभवने रायपुरवनवृत्तस्य सम्भागीयवनाधिकारी मयङ्कपाण्डेयेन सह सौजन्यभेटां कृतवान्।

अस्मिन् अवसरे राज्यपालेन जूनमासस्य पञ्चमदिने आयोज्यमानस्य विश्वपर्यावरणदिवसस्य कृते वनविभागेन क्रियमाणानां सज्जानां विषये विस्तृता सूचना प्राप्ता। राज्यपालेन पर्यावरणसंरक्षणस्य प्रति जनानां मध्ये जागरूकतावृद्धये तथा अधिकाधिकजनसहभागितायाः सुनिश्चितीकरणाय आवश्यकाः दिशानिर्देशाः प्रदत्ताः।

तेन उक्तं यत् पर्यावरणसंरक्षणं केवलम् एकदिवसपर्यन्तं सीमितं न भवेत्, अपितु सततं सामाजिकउत्तरदायित्वरूपेण स्वीकर्तव्यम्।

---------------

Hindusthan Samachar / Dheeraj Maithani