दिलीप-घोषस्य अभिषेक-बन्द्योपाध्यायं प्रति तीक्ष्णः प्रहारः, उक्तवान्— “विधेः पाशात् पलायितुं न शक्यते, कारागारगमनं निश्चितम्”
कोलकातानगरम्, ०४ जूनमासः (हि.स.)। भारतीयजनता-पक्षस्य वरिष्ठ-नेता तथा पश्चिमबङ्ग-राज्यस्य मन्त्री दिलीप-घोष-महाभागः तृणमूल-काङ्ग्रेस-दलस्य राष्ट्रीय-महासचिवम् अभिषेक-बन्द्योपाध्याय-महाभागं प्रति गम्भीरान् आरोपान् कृत्वा तीक्ष्णं प्रहारं कृतवान्। तेन
दिलीप घोष


कोलकातानगरम्, ०४ जूनमासः (हि.स.)। भारतीयजनता-पक्षस्य वरिष्ठ-नेता तथा पश्चिमबङ्ग-राज्यस्य मन्त्री दिलीप-घोष-महाभागः तृणमूल-काङ्ग्रेस-दलस्य राष्ट्रीय-महासचिवम् अभिषेक-बन्द्योपाध्याय-महाभागं प्रति गम्भीरान् आरोपान् कृत्वा तीक्ष्णं प्रहारं कृतवान्। तेन उक्तं यत् अभिषेक-बन्द्योपाध्यायः विधेः पाशात् रक्षितुं रोगस्य व्याजं करोति, किन्तु सः न रक्षितुं शक्नोति तथा अन्ततः तस्य कारागारगमनं भविष्यति।

न्यू-टाउन-क्षेत्रे प्रातःकालीन-भ्रमणस्य अवसरे गुरुवासरे प्रातःकाले माध्यम-प्रतिनिधिभिः सह वार्तालापं कुर्वन् दिलीप-घोषः अवदत् यत् अस्मात् पूर्वम् अपि तृणमूल-काङ्ग्रेस-दलस्य बहवः नेतारः, यथा पार्थ-चट्टोपाध्यायः तथा अनुब्रत-मण्डलः, रोगस्य व्याजं कृत्वा विधेः पाशात् पलायितुं प्रयत्नं कृतवन्तः, किन्तु अन्ततः तेषां कारागारगमनम् अभवत्।

दिलीप-घोषः आरोपम् अकरोत् यत् पश्चिमबङ्गे जातस्य कथित-भ्रष्टाचारस्य धनम् अभिषेक-बन्द्योपाध्याय-पर्यन्तं प्राप्तम्। तेन उक्तं यत् कोयला-व्यापार:, बालुका-खननम् तथा पशु-व्यापार: इत्यादिभ्यः प्रकरणेभ्यः सम्बद्धं धनं राज्यस्य उच्चस्तर-पर्यन्तं गतम् आसीत् तथा अस्मिन् विषये अभिषेक-बन्द्योपाध्यायस्य भूमिका आसीत्।

तृणमूल-काङ्ग्रेस-दले हालिया-राजनीतिक-चाञ्चल्यस्य तथा विधायकानां मध्ये मतभेदस्य विषये पृष्टे सति तेन उक्तं यत् दले या स्थितिः अभवत् सा पूर्वमेव अपेक्षिता आसीत्। तेन उक्तं यत् तृणमूल-काङ्ग्रेस-दलस्य भविष्यं समाप्तेः दिशि गच्छति तथा एतत्सङ्घटनं इदानीं विघटनस्य दिशि अग्रसरति।

दिलीप-घोषः एतदपि अवदत् यत् अभिषेक-बन्द्योपाध्यायस्य तृणमूल-काङ्ग्रेस-दलेन सह वास्तविकः सम्बन्धः कदापि नासीत्, अपितु ममता-बन्द्योपाध्यायाः भाग्नेयत्व-सम्बन्धस्य कारणेन एव सः राजनीतौ प्रगतिम् अलभत। तेन आरोपः कृतः यत् दले भ्रष्टाचारस्य तथा अवैध-धनसङ्ग्रहस्य प्रवृत्तिः दीर्घकालात् प्रवर्तते।

अग्रे तेन उक्तं यत् यथा राज्ये कथित-अवैध-निर्माणानां विषये कार्यवाही क्रियते, तथैव तृणमूल-काङ्ग्रेस-दलस्य विरुद्धम् अपि राजनैतिक-स्तरे कार्यवाही भवितव्या। तेन उक्तम्— “अभिषेक-बन्द्योपाध्यायः विधेः पाशात् पलायितुं प्रयतते। अस्मात् पूर्वम् अपि तस्य दलस्य नेतारः चिकित्सालये स्थिताः सन्तीति कथयन्तः तथैव अकुर्वन्। तृणमूल-काङ्ग्रेस-दलं समाप्तिं प्रति गच्छति, एतदेव तस्य भविष्यं आसीत्। पञ्चदशवर्षेषु तृणमूल-काङ्ग्रेस-नाम्ना बङ्गप्रदेशः नष्टः कृतः। जनाः इदानीं तृणमूल-काङ्ग्रेस-दलं द्रष्टुमपि न इच्छन्ति।”

Hindusthan Samachar / Divya Ranjan