Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, ०४ जूनमासः (हि.स.)। विश्व-पर्यावरण-दिवसस्य विशेषावसरे जनपदे समाहर्तुः आकाश-छिकारा इत्यस्य निर्देशनात् पर्यावरण-संरक्षणस्य जन-जागरूकतायाश्च कृते एकः अभिनवः प्रयासः आरब्धः। जनपदस्य सर्वेषु सर्वकारीय-असर्वकारीय-विद्यालयेषु स्थापितैः इको-क्लबैः पर्यावरण-संरक्षणसम्बद्धानां विविध-गतिविधीनाम् आरम्भः क्रियते।
समग्र-शिक्षा-छत्तीसगढ-राज्य-परियोजना-कार्यालयस्य भारत-सर्वकारस्य च निर्देशानुसारम् एषः सम्पूर्णः कार्यक्रमः “मिशन-लाइफ” इत्यस्य अन्तर्गतं सञ्चाल्यते। अस्य मुख्योद्देश्यं विद्यालयीय-विद्यार्थिषु पर्यावरण-संरक्षणस्य, सतत-जीवनशैल्याः तथा जलवायु-परिवर्तनं प्रति उत्तरदायित्व-बोधस्य जागरूकतायाश्च विकासः अस्ति। एषा पहल राष्ट्रीय-शिक्षा-नीति-२०२० इत्यस्य प्राथमिकताभिः अपि पूर्णतया अनुरूपा अस्ति।
अस्य अभियानस्य अन्तर्गतं बस्तर-जनपदस्य सर्वेषु विद्यालयेषु ५ जूनतः ३० सितम्बर-२०२६ पर्यन्तं “मातुः नाम्ना एकः वृक्षः ३.०” इति व्यापक-वृक्षारोपण-अभियानम् अपि सञ्चालयिष्यते। अस्य अन्तर्गतं प्रत्येकं विद्यालयाय निर्धारित-लक्ष्यानुसारं पादपारोपणं भविष्यति। पूर्ववर्षवत् अस्मिन् शैक्षणिक-सत्रे अपि आरोपित-पादपानां संरक्षणाय नियमित-परिचर्यायै च सुदृढ-व्यवस्था सुनिश्चितीक्रियते। यदि विद्यालय-परिसरे पर्याप्तं स्थानं न उपलब्धं भविष्यति तर्हि छात्राः स्वगृहेषु, मार्ग-पार्श्वेषु अथवा अन्येषु उपयुक्त-सार्वजनिक-स्थानेषु पादपान् रोपयितुं शक्नुवन्ति।
अस्मिन् वर्षे विश्व-पर्यावरण-दिवसस्य मुख्य-विषयः “जलवायु-परिवर्तनम्” इति निर्धारितः। अस्मिन् गम्भीर-विषये छात्रान् संवेदनशीलान् कर्तुं जनपद-शिक्षा-अधिकारी तथा समग्र-शिक्षा-माध्यमिक-परियोजना-अधिकारी, बस्तरस्य मार्गदर्शनेन व्यापक-कार्ययोजना निर्मिता अस्ति। अस्याः अन्तर्गतं विद्यालयेषु वृक्षारोपणम्, बीज-गोलक-निर्माणम् (सीड-बॉल), स्वच्छता-अभियानम्, पक्षी-संरक्षणम्, जल-संरक्षणम्, जैव-विविधता-अध्ययनम् तथा पर्यावरण-शपथ-ग्रहणम् इत्यादयः कार्यक्रमाः आयोज्यन्ते। छात्राः उत्साहपूर्वकं “मातुः नाम्ना एकः वृक्षः” अभियानस्य अन्तर्गतं पादपारोपणं कृत्वा प्रकृति-रक्षणस्य संकल्पम् अपि स्वीकृतवन्तः।
पर्यावरण-जागरूकताम् एक-दिवस-पर्यन्तं सीमितां न कृत्वा जनपदस्य सर्वेषु विद्यालयेषु ०५ जूनतः ३० जूनपर्यन्तं “हरित-ग्रीष्म-शिविरस्य” आयोजनं क्रियते।
अनेन शिविरेण छात्र-छात्राः प्रकृत्या सह सम्बद्धाः भविष्यन्ति। तदर्थं सप्त प्रमुख-विषयाधारिताः व्यावहारिक-मनोरञ्जक-गतिविधयः आयोज्यन्ते। अस्य अन्तर्गतं छात्राः प्रकृति-भ्रमणेन स्थानीय-पारिस्थितिकी-व्यवस्थां ज्ञास्यन्ति, विद्यालयेषु पाक-उद्यानान् (किचन-गार्डन्) निर्मास्यन्ति तथा श्रीधान्य-आधारित-प्रतियोगितासु भागं गृह्णन्ति।
तदतिरिक्तं पुरातन-विद्युत्-उपकरणानां सुरक्षित-निष्कासनार्थम् ई-कूटक-संग्रह-केन्द्राणि निर्मीयन्ते, कक्षासु आर्द्र-शुष्क-कचरयोः पृथक्-संग्रहाय द्वि-पात्र-प्रणाली (टू-बिन्-सिस्टम्) प्रवर्तिष्यते तथा खाद-गर्ताः (कम्पोस्ट-पिट्) अपि निर्मास्यन्ते।
ऊर्जा-जलयोः संरक्षणार्थं विद्यालयेषु विशेष-परीक्षणानि (ऑडिट्) क्रियन्ते। एकवार-उपयोगी-प्लास्टिक-इत्यस्य परित्यागं कृत्वा इस्पात-निर्मित-भोजन-पात्राणि तथा जूट-निर्मित-उपस्कर-कोष्ठिकाः (बैग्) स्वीकर्तुं स्थानीय-समुदायः प्रेरयिष्यते। एताः सर्वाः गतिविधयः नूतन-वंशं पर्यावरणं प्रति अधिक-उत्तरदायिनीं करिष्यन्ति।
Hindusthan Samachar / Divya Ranjan