Enter your Email Address to subscribe to our newsletters

मुंबईनगरम्, ०४ जूनमासः (हि.स.)। हिन्दी-चलचित्र-जगतः वरिष्ठ-निर्माता तथा केंद्रीय-चलचित्र-प्रमाणन-बोर्ड (सीबीएफसी) इत्यस्य पूर्वाध्यक्षः पहलाज: निहलानी ७६-वर्षीय-आयुषि निधनं प्राप्तवान्।
सः दीर्घकालं यावत् वयोसंबद्धैः स्वास्थ्य-समस्याभिः तथा यकृत्-सम्बद्ध-रोगेण च पीडितः आसीत्। तस्य निधनवार्ता प्रसृतमात्रेणैव चलचित्र-जगति शोकतरंग: प्रवृत्तः। सूचनानुसारं तस्य अन्त्य-संस्कारः ०४ जूनमासे मुम्बई-नगरे क्रियते।
पहलाज-निहलानी हिन्दी-चलचित्र-निर्माणे विशिष्टं स्थानं धारयति स्म। तेषां बैनर-अन्तर्गताः ‘आँखें’, ‘अंदाज’, ‘तलाश’, ‘रंगीला राजा’ तथा ‘जूली २’ इत्यादयः चलचित्राः दर्शकाणां मध्ये विशेष-प्रसिद्धिं प्राप्तवन्तः।
चलचित्र-व्यापार-विश्लेषकः अतुल-मोहनः तस्य निधनं व्यक्तिगत-क्षतिः इति वर्णितवान् तथा उक्तवान् यत् वितरकाः तस्य निर्माणेषु विश्वासं कुर्वन्ति स्म, यतः तेषां मतं आसीत्—येन परियोजनया सः सम्बद्धः भवति, तस्य सफलता-संभावना वर्धते।
सः २०१५ तः २०१७ पर्यन्तं सीबीएफसी-अध्यक्ष-पदे कार्यं कृतवान्। तस्य कार्यकालः चलचित्र-प्रमाणन-सम्बद्धैः विवादैः चर्चाभिः च चिह्नितः आसीत्। तथापि तस्य निकट-सहयोगिनां अनुसारं सः सदैव चलचित्र-निर्मातृभ्यः समये प्रमाणपत्र-प्रदानाय प्रतिबद्धः आसीत्, तथा आवश्यकता-स्थितौ अवकाश-दिवसेषु अपि स्क्रीनिङ्-व्यवस्थां कारयति स्म।
निर्माता, वितरकः तथा प्रशासकः इति रूपेण तस्य योगदानं दीर्घकालं यावत् स्मरणीयं भविष्यति।
Hindusthan Samachar / Divya Ranjan