Enter your Email Address to subscribe to our newsletters

-गडकरी अवदत्, प्रदूषणं न्यूनीभविष्यति, आयातनिर्भरता च।
नवदिल्ली, 04 जूनमासः (हि.स.)।
केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिनगडकरी पेट्रोलियमप्राकृतिकगैसमन्त्रिणा हरदीपसिंहपुरिणा सह अत्र भारतस्य प्रथमस्य बहुविधइन्धनयुक्तयानस्य उद्घाटनम् अकरोत्। एषा पहलः मारुतिसुजुकीसंस्थया कृता अस्ति।
गडकरी अस्मिन् अवसरे अवदत् यत् बहुविधेन्धनयुक्तयानानां उपयोगेन उत्सर्जनस्य न्यूनता भविष्यति, अपरिष्कृततैलस्य आयातनिर्भरता न्यूनं भविष्यति तथा च प्रायः एकलक्षचतुश्चत्वारिंशत्सहस्रकोटिरूप्यकाणां विदेशीमुद्रायाः संरक्षणं सम्भविष्यति। एषा उपलब्धिः प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्वच्छस्थायिस्वावलम्बिगतिशीलतादृष्टिकोणस्य अनुरूपा अस्ति।
तेन उक्तं यत् एषः उपायः जैवइन्धनस्य प्रोत्साहनं करिष्यति, कृषकाणां साहाय्यं करिष्यति, ग्रामीणऊर्जासुरक्षां सुदृढां करिष्यति तथा च रोजगारावसरान् उत्पादयिष्यति। परिवहनक्षेत्रात् जायमानस्य प्रदूषणस्य भागः प्रायः चत्वारिंशत्प्रतिशतं वर्तते तथा च तस्य न्यूनता शासनस्य प्राथमिकता अस्ति। दिल्लीनगरवत्सु महानगरेषु जनाः वायुप्रदूषणस्य दुष्प्रभावैः सम्यक् परिचिताः सन्ति, अतः अस्यां दिशि दृढपदानि ग्राह्याणि।
गडकरी अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे हरदीपसिंहपुरिणो विशेषप्रयत्नेन तथा मारुतिसुजुकीसदृशानां संस्थानां सहयोगेन भारतेन एषः महत्त्वपूर्णः मीलस्तम्भः प्राप्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani